सतनामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

सतनामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सतना इति नगरम् ।

भौगोलिकम्

सतनामण्डलस्य विस्तारः ७,५०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रीवामण्डलं, पश्चिमे पन्नामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सतनामण्डलस्य जनसङ्ख्या २२,२८,९३५ अस्ति । अत्र ११,५७,४९५ पुरुषाः, १०,७१,४४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.१९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ७२.२६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- मझगवा, बीरसिंहपुर, रघुराजनगर, कोतर, नागोद, रामपुर बघेलन, उंचाहरा, अमरपतन, मैहर, रामनगर ।

वीक्षणीयस्थलानि

चित्रकूट-नगरम्

चित्रकूट-नगरम् एकं धार्मिकं, सांस्कृतिकम्, ऐतिहासिकं च स्थलमस्ति । इदं नगरं सतनामण्डलस्य बुन्देलखण्ड-प्रदेशे स्थितमस्ति । अस्मिन् नगरे हिन्दुसंस्कृत्याः अनेकानि मन्दिराणि सन्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।

ग्रीद्धराज-पर्वतः

ग्रीद्धराज-पर्वतः रामनगर-उपमण्डलस्य देवराज-नगरे स्थितमस्ति । अयं पर्वतः रामनगरात् ८ कि. मी. दूरे अस्ति । अयं धर्मपर्वतः कथ्यते । अस्य पर्वतस्य उल्लेखः स्कन्दपुराणे अपि अस्ति । स्कन्दपुराणे अस्य पर्वतस्य नाम ग्रीद्धाञ्चल-पर्वतः अस्ति ।

भरहुत

भरहुत-नगरं सतनामण्डलस्य प्राचीनतमं नगरम् अस्ति । अस्मिन् नगरे स्तूपः अस्ति । भरहुतस्तूपस्य निर्माणम् ई. पूर्वे तृतीयशताब्द्यां मौर्यशासकेन अशोकेन कारितम् । किन्तु कलाकार्यं शुङ्गवंशस्य शासनकाले अभवत् ।

अन्यानि वीक्षणीयस्थलानि

मैहर इत्यत्र माता-शारदा-मन्दिरं, रामवनम् इत्यत्र तुलसी-सङ्ग्रहालयः, बीरसिंहपुर इत्यत्र शिव-मन्दिरं, सतना इत्यत्र वेङ्कटेश-मन्दिरं वैष्णोदेवी-मन्दिरं च, गञ्ज सलेहा इत्यत्र चोमुखीनाथ-मन्दिरं, नागौद-दुर्गः, परसमनिया-उपशैलं, भरजुनादेवी, भाकुल-बाबा, कर्दमेश्वरनाथः, नागौद इत्यत्र बर्मेन्द्र जिला पुस्तकालय, साई-मन्दिरं, चित्रकूटधाम, पशुपतिनाथ-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://satna.nic.in/
http://www.census2011.co.in/census/district/296-satna.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सतनामण्डलम्&oldid=10927" इत्यस्माद् प्रतिप्राप्तम्