कटनीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

कटनीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति कटनी इति नगरम् ।

भौगोलिकम्

कटनीमण्डलस्य विस्तारः ४,९५० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उमरियामण्डलं, पश्चिमे दमोहमण्डलम्, उत्तरे पन्नामण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं कटनीमण्डलस्य जनसङ्ख्या १२,९२,०४२ अस्ति । अत्र ६,६२,०१३ पुरुषाः, ६,३०,०२९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ७१.९८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- विजयराघवगढ, मुरवाडा, रिठी, बहोरीबन्द, ढीमरखेडा, बिलहरी, बदवाडा ।

कृषिः वाणिज्यं च

इदं मण्डलं चूर्णपाषाणेभ्यः प्रख्यातम् अस्ति । तत्र चूर्णस्य व्यापारः अत्यधिकः प्रचलति । अस्मिन् मण्डले सस्योदपादनानि अत्यधिकपरिमाणे प्राप्यन्ते । तेषु गोधूमः प्रमुखः अस्ति । अन्ये अपि बहवः उद्यमाः सन्ति । यन्त्रागाराः अपि बहवः सन्ति । अत्र कृषि उपजमण्डी अस्ति यस्याः स्थानं भारते प्रथमम् आयाति ।

वीक्षणीयस्थलानि

विजयराघवगढदुर्गः

अयं कटनीमण्डलस्य सुन्दरः दुर्गः अस्ति । अयं दुर्गः कटनी-नगरात् ३२ कि. मी. दूरे अस्ति । राज्ञा प्रयागदासेन तस्य दुर्गस्य निर्माणं कारितम् । तस्मिन् दुर्गे भगवतः विजयराघवस्य मन्दिरम् अपि निर्मापितम् । अतः तस्य दुर्गस्य विजयराघवगढ इति नाम । तस्य समीपे ’रङ्गमहल’-नामकं भवनमस्ति । बहोरीबन्द, रूपनाथ, झीन्झारी एतानि अपि कटनीमण्डलस्य मुख्यानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://katni.nic.in/
http://www.census2011.co.in/census/district/317-katni.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=कटनीमण्डलम्&oldid=5059" इत्यस्माद् प्रतिप्राप्तम्