पन्नामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

पन्नामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पन्ना इति नगरम् ।

भौगोलिकम्

पन्नामण्डलस्य विस्तारः ७,१३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सतनामण्डलं, पश्चिमे छतरपुरमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति । अस्मिन् मण्डले केननदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं पन्नामण्डलस्य जनसङ्ख्या १०,१६,५२० अस्ति । अत्र ५,३३,४८० पुरुषाः, ४,८३,०४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०५ अस्ति । अत्र साक्षरता ६७.७९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वज्रस्य व्यापारः भवति । पन्नामण्डलस्य अपरं नाम वज्रनगरम् (District of Diamonds) इति । अस्मिन् मण्डले अत्यधिकपरिमाणे वज्रं प्राप्यते ।

वीक्षणीयस्थलानि

पाण्डव-जलप्रपातः

पाण्डव-जलप्रपातः पन्ना-नगरात् १२ कि. मी. दूरे अस्ति । अयं जलप्रपातः पन्नाराष्ट्रियोद्याने स्थितः अस्ति । अयं जलप्रपातः वर्षा-ऋतौ अतीव रमणीयः भवति । पन्नाराष्ट्रियोद्याने बहवः गुहाः सन्ति । महामतिप्राणनाथजी मन्दिर, पद्मावतीदेवी बडीदेवी मन्दिर, बलदेवजी मन्दिर, जुगलकिशोरजी मन्दिर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.panna.nic.in/
http://www.census2011.co.in/census/district/293-panna.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=पन्नामण्डलम्&oldid=8969" इत्यस्माद् प्रतिप्राप्तम्