विदिशामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

विदिशामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति विदिशा इति नगरम् ।

भौगोलिकम्

विदिशामण्डलस्य विस्तारः ७,३७१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे अशोकनगरमण्डलं, दक्षिणे रायसेनमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी, सिन्धनदी च प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं विदिशामण्डलस्य जनसङ्ख्या १४,५८,८७५ अस्ति । अत्र ७,६९,५६८ पुरुषाः, ६,८९,३०७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९६ अस्ति । अत्र साक्षरता ७०.५३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- विदिशा, सिरोज, कुरवाई, लटेरी, शमशाबाद, नाटेरा, बासोदा, टिवण्डा, गुलाबगञ्ज, ग्यारसपुर ।

वीक्षणीयस्थलानि

उदयगिरि-गुहा

उदयगिरि-गुहा पर्वतात् निर्मिता अस्ति । इदं स्थलं विदिशा-नगरात् ६ कि. मी. दूरे स्थितमस्ति । इदं स्थलं बेस एवं बेटवा इत्येतयोः नद्योर्मध्ये स्थितमस्ति । अत्र बहूनि मन्दिराणि अपि सन्ति । एतानि मन्दिराणि उदयगिरिमन्दिराणि इति कथ्यन्ते । इदं स्थलं प्राकृतिकसौन्दर्ययुक्तम् अस्ति । पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति ।

उदयेश्वर-मन्दिरम्

उदयेश्वर-मन्दिरं बासोदा-उपमण्डलस्य उदयपुर-ग्रामे स्थितमस्ति । अस्मिन् मन्दिरे एकः प्राचीनसंस्कृतशिलालेखः अस्ति । उदयपुर-ग्रामः परमार-वंशीयेन राज्ञा उदयादित्येन अन्वेषितः । सिंरोज नगरस्य समीपं सेमरखेड़ी दर्शनीय अस्ति ।तै एक तीर्थस्थलं अस्ति। |Center = विदिशामण्डलम् |East = सागरमण्डलम् |West = भोपालमण्डलम् |North = अशोकनगरमण्डलम् |South = रायसेनमण्डलम् }} फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.vidisha.nic.in/
http://www.census2011.co.in/census/district/310-vidisha.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=विदिशामण्डलम्&oldid=2203" इत्यस्माद् प्रतिप्राप्तम्