रायसेनमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

रायसेनमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रायसेन इति नगरम् ।

भौगोलिकम्

रायसेनमण्डलस्य विस्तारः ८,४६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे विदिशामण्डलं, दक्षिणे सीहोरमण्डलम् अस्ति । अस्मिन् मण्डले वेत्रवतीनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं रायसेनमण्डलस्य जनसङ्ख्या १३,३१,५९७ अस्ति । अत्र ७,००,३५८ पुरुषाः, ६,३१,२३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ७२.९८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- रायसेन, गोहरगञ्ज, बादी, बरैली, सिलवानी, उदयपुरा, गिरतगञ्ज ।

वीक्षणीयस्थलानि

भोजपुरम्

भोजपुरं भोपाल-नगरात् २५ कि. मी. दूरे अस्ति । इदं नगरं मध्यभारतस्य सोमनाथ इति प्रसिद्धम् । इदं नगरं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य नगरस्य समीपे लघुपर्वते एकं विशालं शिवमन्दिरं वर्तते । अस्मिन् मन्दिरे विद्यमानस्य शिवलिङ्गस्य स्थापना परमारराज्ञा भोजेन कारितम् । अतः इदं मन्दिरं भोजपुर-मन्दिरं, भोजेश्वरमन्दिरम् इत्यपि कथ्यते । अस्य मन्दिरस्य निर्माणं पूर्णतया न कृतमस्ति । अस्मिन् मन्दिरे एकः पाषाणखण्डः लिङ्गरूपेण अस्ति । तल्लिङ्गम् आलीढम् अस्ति । तस्य उच्चता ३.८५ मी. अस्ति ।

सांची-स्तूपः

सांची-स्तूपः भोपाल-नगरात् ४५ कि. मी. दूरे अस्ति । इदं स्थलं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य समीपे एकस्मिन् उपशैले एकः विशालः बौद्धस्तूपः अस्ति । अस्मिन् स्तूपे भगवतः बुद्धस्य अस्थीनि स्थापितानि सन्ति ।

भीम बेटका

भीम बेटका इति इदं स्थलं भारतस्य मध्यप्रदेशराज्यस्य रायसेनमण्डले स्थितमस्ति । इदम् एकं प्राचीनं स्थलम् अस्ति । अत्र बहूनि शैलचित्राणि सन्ति । तेषां चित्राणां रचना आदिमानवैः कृता । इदं स्थलं प्रसिद्धम् अस्ति । इमानि शैलचित्राणि नवसहस्रवर्षप्राचीनानि सन्ति । अत्र पुरावशेषेषु दुर्गभित्तयः, लघुस्तूपाः, पाषाणनिर्मितानि भवनानि, शुङ्ग-गुप्तकालीनाः अभिलेखाः, शङ्खाभिलेखाः एवं परमार-कालीनमन्दिराणाम् अवशेषाः प्राप्यन्ते । भीम बेटका इति इदं स्थलं भारतीयपुरातत्वसर्वेक्षण इत्यनया भारतसर्वकारीयसंस्थया ई. १९९० तमस्य वर्षस्य अगस्त-मासे राष्ट्रियपारम्परिकस्थलत्वेन उद्घोषितम् । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://raisen.nic.in/
http://www.census2011.co.in/census/district/313-raisen.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=रायसेनमण्डलम्&oldid=6081" इत्यस्माद् प्रतिप्राप्तम्