सागरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

सागरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सागर इति नगरम् ।

भौगोलिकम्

सागरमण्डलस्य विस्तारः १०,२५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दमोहमण्डलं, पश्चिमे विदिशामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे नरसिंहपुरमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सागरमण्डलस्य जनसङ्ख्या २३,७८,४५८ अस्ति । अत्र १२,५६,२५७ पुरुषाः, ११,२२,२०१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९३ अस्ति । अत्र साक्षरता ७६.४६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- सागर, बीना, खुरल, मलठोन, बान्दा, शाहगढ, राहतगढ, गर्हकोट, रेहली, केसली, देवरी ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले मूलतः तु कोऽपि मुख्योद्योगः नास्ति । किन्तु ग्रामजनाः धूम्रवर्तिकायाः धूपशलाकायाः च निर्माणकार्यं कुर्वन्ति । नगरेषु लघूद्योगाः सन्ति ।

वीक्षणीयस्थलानि

एरण

एरण इतीदं स्थलं सागर-नगरात् ७५ कि. मी. दूरे अस्ति । इदं स्थलं बीना-उपमण्डले स्थितमस्ति । एरण इतीदं स्थलं बीनानदीतटे स्थितमस्ति । अत्र बौद्ध-गुप्त-शिलालेखाः, शक-शासकानां चत्वारः शिलालेखाः, हुण-शासकानां शिलालेखाः च सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://sagar.nic.in/
http://www.census2011.co.in/census/district/294-sagar.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सागरमण्डलम्&oldid=998" इत्यस्माद् प्रतिप्राप्तम्