भोपालमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

भोपालमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भोपाल इति नगरम् ।

भौगोलिकम्

भोपालमण्डलस्य विस्तारः २,७७२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे सिहोरमण्डलम्, उत्तरे गुनामण्डलं, दक्षिणे सिहोरमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं भोपालमण्डलस्य जनसङ्ख्या २३,७१,०६१ अस्ति । अत्र १२,३६,१३० पुरुषाः, ११,३४,९३१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.६२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ८०.३७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते - हुजुर, बेरासिया ।

वीक्षणीयस्थलानि

भोजपुर

भोजपुर-नगरं भोपालमण्डलस्य नगरम् अस्ति । अस्मिन् नगरे एकं भव्यं मन्दिरम् अस्ति । तस्य नाम भोजपुरेश्वर-मन्दिरम् इति । इदं मन्दिरं १००० वर्षप्राचीनम् अस्ति । इदं भगवतः शिवस्य मन्दिरमस्ति । मन्दिरेऽस्मिन् सुन्दरं शिवलिङ्गम् अस्ति । अस्य लिङ्गस्य उच्चता ७.५ फीट अस्ति । महाशिवरात्रिपर्वणि बहवः भक्ताः तत्र दर्शनाय गच्छन्ति ।

इस्लाम-नगरम्

इस्लाम-नगरं भोपालनगरात् ११ कि. मी. दूरे अस्ति । अस्मिन् हिन्दु-इस्लामी सज्जीकलाः सन्ति । अस्य स्थलस्य निर्माणं अफगान-शासकेन दोस्त मोहम्मद खान इत्यनेन कारितम् । भीमबेटका, सामसगढ, मनुआ भान की टेकरी इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यानुबन्धाः

फलकम्:Commons

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=भोपालमण्डलम्&oldid=2523" इत्यस्माद् प्रतिप्राप्तम्