अशोकनगरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

अशोकनगरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अशोकनगरम् इति नगरम् ।

भौगोलिकम्

अशोकनगरमण्डलस्य विस्तारः ५,६७३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे गुनामण्डलम्, उत्तरे शिवपुरीमण्डलं, दक्षिणे विदिशामण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अशोकनगरमण्डलस्य जनसङ्ख्या ८,४५,०७१ अस्ति । अत्र ४,४३,८३७ पुरुषाः, ३,६६,६३२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६६.४२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ अशोकनगरम्, ईसागढ, चन्देरी, शाढौरा, मुंगावली, नईसराय ।

वीक्षणीयस्थलानि

त्रिकाल चौबीसी जैनमन्दिरम्

अस्य मन्दिरस्य कारणात् अशोकनगरम् भारते प्रसिद्धमस्ति । अस्मिन् मन्दिरे भूतभविष्यत्वर्तमानकालानां चतुर्विंशतिजैनतीर्थङ्कराणां मूर्तयः सन्ति ।

चन्देरीदुर्गः

अयं दुर्गः चन्देरी-ग्रामात् ७१ मी. उपरि स्थितोऽस्ति । पुरा चन्देरी-ग्रामस्य केनचित् मुस्लिम-शासकेन अस्य दुर्गस्य निर्माणं कारितम् । अस्य दुर्गस्य द्वारत्रयम् अस्ति । यद्यपि प्रथमं द्वारं मुख्यत्वेन गण्यते तथापि नाम्नः कारणात् अपरे द्वे द्वारे विशिष्टे गण्येते । तयोः नामनी स्तः – ‘हवा पौर’ तथा च ‘खूनी दरवाजा’ इति । अस्य दुर्गस्य दृश्यं ग्रामात् बहुसुन्दरं भवति ।

कौशकमहल चन्देरी

मालवा-प्रान्तस्य ‘महमूद शाह खिलजी’ इत्यनेन चन्देरीग्रामे सप्तभूमभवनं निर्मापितम् । किन्तु क्लेशकारणात् तस्य निर्माणकाले अवरोधः जातः इत्यतः बहूनि वर्षाणि यावत् अपूर्णावस्थायामासीत् । ततः परम् अष्टादशशताब्द्यां बुन्देल-प्रान्तस्य मुख्यजनैः अस्य भवनस्य निर्माणं पूर्णं कारितम् ।

आनन्दपुरम्

इदं नगरम् अशोकनगरात् ३० कि. मी. दूरे ईसागढ-उपमण्डले स्थितमस्ति । अस्मिन् नगरे ‘श्री आनन्दपुर साहिब’ इति एकं धार्मिकस्थलमस्ति । अयं मठः अद्वैतमतेन प्रभावितः अस्ति । अस्य मठस्य संस्थापकः अद्वैतानन्दः आसीत् । तस्य अपरं नाम ‘महाराज परमहंस दयाल’ इति । तत्स्थलं परितः प्राकृतिकसौन्दर्यम् अस्ति । स आश्रमः विन्ध्याचलभूभृतः समीपे अस्ति । प्रदूषणरहितेन वातावरणेन आकर्षणस्य केन्द्रमस्ति स आश्रमः । आनन्दपुरस्य विकासः १९३९ तः १९६४ यावत् कृतः ।

कडवाया

कडवाया इति लघुग्रामः ईसागढ-उपमण्डले अस्ति । तस्मिन् बहूनि मन्दिराणि सन्ति । तेषु एकं मन्दिरं दशमशताब्द्यां वास्तुशास्त्रानुसारं निर्मापितम् । तस्मिन् गर्भगृहम्, अन्तरालं, मण्डपं च अस्ति । पुरा इदं मन्दिरं चाण्डालमठनाम्ना प्रसिद्धमासीत् इति कौतुकम् । अकबर इत्यस्य शासनकाले कडवाया-ग्रामः ग्वालियर-प्रान्तस्य मुख्यालयः आसीत् ।

अस्मिन् मण्डले तुलसी सरोवर, सङ्कटमोचन, नेहरू बाल उद्यान एतानि अपि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://ashoknagar.nic.in/
http://www.bharatbrand.com/english/mp/districts/Ashoknagar/Ashoknagar.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अशोकनगरमण्डलम्&oldid=10380" इत्यस्माद् प्रतिप्राप्तम्