मण्डलामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

मण्डलामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मण्डला इति नगरम् ।

भौगोलिकम्

मण्डलामण्डलस्य विस्तारः ५,८०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे सिवनीमण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे बालाघाटमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं मण्डलामण्डलस्य जनसङ्ख्या १०,५४,९०५ अस्ति । अत्र ५,२५,२७२ पुरुषाः, ५,२९,६३३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ६६.८७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले काष्ठोत्पादनं, पर्णोत्पादनं, पशुपालनं, रज्जुनिर्माणम् इत्यादयः उद्यमाः सन्ति । अस्मिन् मण्डले ’मैङ्गनीज’ धातुः उत्पद्यते ।

वीक्षणीयस्थलानि

कान्हा राष्ट्रिय-उद्यानम्

कान्हा राष्ट्रिय-उद्यानं मण्डलामण्डले स्थितमस्ति । अस्मिने उद्याने शताधिकाः व्याघ्राः सन्ति । इदम् उद्यानं व्याघ्रभूमिः इति विख्यातमस्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://mandla.nic.in/
http://www.census2011.co.in/census/district/321-mandla.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=मण्डलामण्डलम्&oldid=7209" इत्यस्माद् प्रतिप्राप्तम्