जबलपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

जबलपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जबलपुरम् इति नगरम् ।

भौगोलिकम्

जबलपुरमण्डलस्य विस्तारः ५,२११ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे कटनीमण्डलं, दक्षिणे मण्डलामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जबलपुरमण्डलस्य जनसङ्ख्या २४,६३,२८९ अस्ति । अत्र १२,७७,२७८ पुरुषाः, ११,८६,०११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८१.०७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम ।

वीक्षणीयस्थलानि

बेडाघाट

बेडाघाट इत्यस्मिन् स्थले नर्मदानदी प्रवहति । नर्मदया पर्वतस्थाः शैलाः छिद्रिताः सन्ति । तत्र प्राकृतिकसौन्दर्यम् अस्ति । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र एकः जलप्रपातः वर्तते । तज्जलप्रपातः धूम्रवान् जलप्रपातः कथ्यते ।

मदनमहल-दुर्गः

मदनमहल-दुर्गः जबलपुरमण्डलस्य गौरवम् अस्ति । अस्य दुर्गस्य निर्माणं राज्ञा मदन शाह इत्यनेन एकादशशताब्द्यां कारितम् । अयम् एकः सुन्दरः दुर्गः अस्ति ।

रानी दुर्गावती-सङ्ग्रहालयः

रानी दुर्गावती-सङ्ग्रहालयस्य निर्माणं राज्ञिदुर्गावत्याः स्मृतौ कृतम् अस्ति । अस्मिन् सङ्ग्रहालये अनेकानां मूर्तीनां, शिलालेखानाम्, ऐतिहासिकावशेषाणां सङ्ग्रहः अस्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://jabalpur.nic.in/
http://www.census2011.co.in/census/district/318-jabalpur.html
http://www.bharatbrand.com/english/mp/districts/Jabalpur/Jabalpur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=जबलपुरमण्डलम्&oldid=2235" इत्यस्माद् प्रतिप्राप्तम्