सिवनीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

सिवनीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सिवनी इति नगरम् ।

भौगोलिकम्

सिवनीमण्डलस्य विस्तारः ८,७५८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मण्डलामण्डलं, पश्चिमे छिन्दवाडामण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले वेणगङ्गानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिवनीमण्डलस्य जनसङ्ख्या १३,७९,१३१ अस्ति । अत्र ६,९५,८७९ पुरुषाः, ६,८३,२५२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७२.१२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- सिवनी, लखनादौन, घन्सौर, धनोरा, छपरा, केवलारी, बरघाट, कुरई ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले सेओना नामकवृक्षाः सन्ति । अयं वृक्षः मण्डलेऽस्मिन् अत्यधिकसङ्ख्यायां दृश्यते । अस्य वृक्षस्य उपयोगः मृदङ्गनिर्माणे भवति ।

वीक्षणीयस्थलानि

पेंच राष्ट्रीय उद्यान फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://seoni.nic.in/
http://www.census2011.co.in/census/district/323-seoni.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सिवनीमण्डलम्&oldid=8604" इत्यस्माद् प्रतिप्राप्तम्