डिण्डोरीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

डिण्डोरीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति डिण्डोरी इति नगरम् ।

भौगोलिकम्

डिण्डोरीमण्डलस्य विस्तारः ७,४७० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे अनूपपुरमण्डलं, पश्चिमे उमरियामण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं डिण्डोरीमण्डलस्य जनसङ्ख्या ७,०४,५२४ अस्ति । अत्र ३,५१,९१३ पुरुषाः, ३,५२,६११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००२ अस्ति । अत्र साक्षरता ६३.९०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते- डिण्डोरी, शाहपुरा ।

कृषिः वाणिज्यं च

बॉक्साइट, अङ्गारः, चूर्णपाषाणः इत्यादयः अस्य मण्डलस्य प्रमुखाः खनिजाः सन्ति ।

वीक्षणीयस्थलानि

राष्ट्रिय-जीवाश्म-उद्यानं, घुघवा

डिण्डोरीमण्डलस्य घुघवा इत्यत्र राष्ट्रिय-जीवाश्म-उद्यानम् अस्ति । जीवाश्म-उद्यानेषु समग्रे एशिया-खण्डे अस्य उद्यानस्य प्रथमं स्थानम् अस्ति । घुघवा इत्यत्र अनेकानां वृक्षाणाम् अवशेषाः प्राप्ताः ये कालान्तरे पाषाणत्वेन परिवर्तिताः अभवन् । ’डायनासोर’ इत्यस्य प्राणिनः अण्डानि अपि प्राप्तानि । अतः बहुसङ्ख्याकाः जनाः द्रष्टुं तत्र गच्छन्ति । इदं स्थलम् आकर्षणस्य केन्द्रम् अस्ति ।

जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम्

जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम् अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । इदम् एकं रमणीयस्थलम् अस्ति । अस्य निर्माणम् एकस्मिन् तडागे कारितम् अस्ति । पर्यटकाः तत्र गत्वा आदिवासि-खाद्यविशेषाणां, ’चाईनीज’-खाद्यविशेषाणां च आनन्दं प्राप्नुवन्ति । डिण्डोरीमण्डलस्य सर्वे हस्तशिल्पिनः स्वकीयानां कलाकृतीनां निर्माणं कुर्वन्ति । ततः परं ताः कलाकृतयः कपिलधारा-कलाकेन्द्रं प्रेषयन्ति । तत्पश्चात् कपिलधाराकेन्द्रे तासां कलाकृतीनां क्रय-विक्रयश्च भवति ।

कपिलधारा-जलप्रपातः

कपिलधारा-जलप्रपातः अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । अयं नर्मदायाः प्रथमः जलप्रपातः अस्ति । अत्र ७० फीट उपरिष्टात् जलं पतति । अस्य प्रपातस्य अधः स्थित्वा स्नानात् पुण्यप्राप्तिर्भवति । उच्यते यत् यदा नर्मदा रुष्टा गच्छन्ती आसीत् तदा कपिलमुनिना तस्याः मार्गः अवरुद्धः किन्तु रुष्टा नर्मदा ततः मार्गम् उल्लङ्घ्य अग्रे गतवती ।

कारोपानी

कारोपानी डिण्डोरी-नगरात् ७३ कि. मी. दूरे अस्ति । अस्मिन् अरण्यानि सन्ति । तेषु अरण्येषु प्राणिनः स्वच्छन्दरीत्या भ्रमणं कुर्वन्ति । तेषु मृगाः, भल्लुकाः, वानराः इत्यादयः प्राणिनः सन्ति । तेषाम् अरण्यानां प्राकृतिकसौन्दर्यम् अपि रमणीयम् अस्ति । जनेभ्यः विहाराय इदं सुन्दरं स्थलम् अस्ति ।

फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://dindori.nic.in/
http://www.census2011.co.in/census/district/320-dindori.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=डिण्डोरीमण्डलम्&oldid=4587" इत्यस्माद् प्रतिप्राप्तम्