बालाघाटमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

बालाघाटमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बालाघाट इति नगरम् ।

भौगोलिकम्

बालाघाटमण्डलस्य विस्तारः ९,२२९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिण-पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छत्तीसगढराज्यं, पश्चिमे सिवनीमण्डलम्, उत्तरे मण्डलामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले वेणगङ्गानदी प्रवहति । अस्य मण्डलस्य दक्षिण-पूर्वभागे सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बालाघाटमण्डलस्य जनसङ्ख्या १७,०१,६९८ अस्ति । अत्र ८,४२,१७८ पुरुषाः, ८,५९,५२० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२१ अस्ति । अत्र साक्षरता ७७.०९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- बालाघाट, लालबर्रा, परसवाडा, बईहाड, तिरोडी, कटङ्गी, खैरलन्जी, वारशिवनी, किर्नापुर, लाणजी ।

वीक्षणीयस्थलानि

कान्हा नेशनल पार्क, लणजी मन्दिर, नहलेसरा बांध, धूति बांध, रामपायली मन्दिर, हाटा बावली, गङ्गुलपुरा जलप्रपातः इत्येतानि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://balaghat.nic.in/
http://www.census2011.co.in/census/district/324-balaghat.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=बालाघाटमण्डलम्&oldid=9372" इत्यस्माद् प्रतिप्राप्तम्