सीधीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

सीधीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सीधी इति नगरम् ।

भौगोलिकम्

सीधीमण्डलस्य विस्तारः ४,८५१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिङ्गरौलीमण्डलं, पश्चिमे सतनामण्डलम्, उत्तरे रीवामण्डलं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले सोननदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सीधीमण्डलस्य जनसङ्ख्या ११,२७,०३३ अस्ति । अत्र ५,७५,९१२ पुरुषाः, ५,५१,१२१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ६४.४३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- चुरहट, सिहावल, गोपडबनास, मझौली, कुसमी, रामपुर नाईकिन ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले अङ्गाराणाम् उत्पत्तिर्भवति । अस्मिन् मण्डले विन्ध्याचलपर्वते ’सूपर थर्मल’ विद्युदुत्पादनयन्त्रागारः अस्ति ।

वीक्षणीयस्थलानि

कैमूर, खेजुआ, रानीमुण्डा इत्येतानि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://sidhi.nic.in/
http://www.census2011.co.in/census/district/329-sidhi.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सीधीमण्डलम्&oldid=7748" इत्यस्माद् प्रतिप्राप्तम्