सिङ्गरौलीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

सिङ्गरौलीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बैढन इति नगरम् ।

भौगोलिकम्

सिङ्गरौलीमण्डलस्य विस्तारः ५,६७५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सीधीमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले रिहन्दनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिङ्गरौलीमण्डलस्य जनसङ्ख्या ११,७८,२७३ अस्ति । अत्र ६,१३,६३७ पुरुषाः, ५,६४,६३६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ६०.४१% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बैढन, चित्राङ्गी, देवसर ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले अङ्गाराः अत्यधिकपरिमाणे प्राप्यन्ते । मण्डलेऽस्मिन् बहवः यन्त्रागाराः सन्ति ।

वीक्षणीयस्थलानि

हनुमान-मन्दिरं, ज्वालामुखी, गायत्री-मन्दिरं, शिव-मन्दिरम् इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://singrauli.nic.in/
http://www.census2011.co.in/census/district/330-singrauli.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सिङ्गरौलीमण्डलम्&oldid=1426" इत्यस्माद् प्रतिप्राप्तम्