खरगौनमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

खरगौनमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति खरगौन इति नगरम् ।

भौगोलिकम्

खरगौनमण्डलस्य विस्तारः ८,०२५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खण्डवामण्डलं, पश्चिमे बडवानीमण्डलम्, उत्तरे इन्दौरमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्य मण्डलस्य उत्तरभागे विन्ध्याचलपर्वतशृङ्खला तथा दक्षिणभागे सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं खरगौनमण्डलस्य जनसङ्ख्या १८,७३,०४६ अस्ति । अत्र ९,५३,१२१ पुरुषाः, ९,१९,९२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.८५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६५ अस्ति । अत्र साक्षरता ६२.७०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- खरगौन, बडवाह, सेन्धवा, कसरावद, भीकनगांव, भगवानपुरा, झीरान्या, महेश्वर, गोगांव ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले ’ग्रेनाईट’, ’कैल्साईट’, ’क्वार्टजाईट’, चूर्णपाषाणः, ’ब्रेक्सिया’ इत्यादयः लभ्यन्ते । कार्पासः अस्य मण्डलस्य प्रमुखव्यवसायः अस्ति । निमाड-प्रान्तः कार्पासपात्रम् इति प्रसिद्धम् ।

वीक्षणीयस्थलानि

खरगौन-नगरम्

इदं नगरं कुन्दा-नद्याः तटे स्थितम् अस्ति । अत्रस्थं प्राचीनं नवग्रहमन्दिरं सुप्रसिद्धम् अस्ति । इदं नगरं कार्पासोद्यमस्य प्रमुखं केन्द्रमस्ति ।

महेश्वर-नगरम्

पुरा हैहय-वंशीयस्य सहस्रार्जुन-नामकस्य राज्ञः राज्यस्य केन्द्रम् आसीत् इदं नगरम् । अयं हि राजा एकवारं रावणं पराजितवान् आसीत् । सहस्रार्जुनः जमदग्नेः हननम् अकरोत् इत्यतः परशुरामेण सः हतः । नर्मदानद्याः तटे स्थितम् इदं नगरं सुन्दरभव्यघट्टैः तथा माहेश्वरीशाटिकाभिः प्रसिद्धम् अस्ति । घट्टे अनेकानि कलात्मकानि मन्दिराणि सन्ति, येषु राजराजेश्वरमन्दिरं प्रमुखम् अस्ति । आद्यगुरुशङ्कराचार्य-मण्डनमिश्रयोः प्रसिद्धशास्त्रार्थः तत्रैव बभूव इति उल्लेखः प्राप्यते ।

मण्डलेश्वर-नगरम्

महेश्वर-नगरात् इदं स्थलं ८ कि. मी. दूरे अस्ति । तत्रापि नर्मदानदी प्रवहति । नर्मदाजलेन तत्र विद्युन्निर्माणं भवति । तस्मिन् नगरे बहूनि मन्दिराणि सन्ति यथा – दत्तमन्दिरं, राममन्दिरं, गुप्तेश्वरमन्दिरं, शीतलामातामन्दिरं, काशिविश्वेश्वरमन्दिरं, ’छप्पन’देवमन्दिरम् । एतानि सर्वाण्यपि मन्दिराणि प्राचीनानि, दर्शनीयानि च सन्ति । उच्यते यत् स्वतन्त्रताप्राप्तिपूर्वं १८५७ ई. समये क्रान्तिकारिभ्यः आङ्ग्लैः तत्र मृत्युदण्डः दत्तः आसीत् । इदं स्थलं ’फांसी-बैड्डी’ इति नाम्ना प्रसिद्धम् अस्ति ।

ऊन

ऊन-नामकं स्थलं खरगौन-नगरात् १४ कि. मी. दूरे अस्ति । तत्र परमारवंशकालीनं शिवमन्दिरं, जैनमन्दिरं च अस्ति । अतः इदं स्थलं प्रसिद्धमस्ति । खजुराहो इत्येतत् विहाय केवलं तत्रैव परमारकालीनमन्दिरम् अस्ति ।

’सिरवेल महादेव’-मन्दिरम्

इदं मन्दिरं खरगौन-नगरात् ५५ कि. मी. दूरे अस्ति । अस्य मन्दिरस्य विषये एवं मान्यता अस्ति यत् भगवते शिवाय रावणेन स्वस्य दशमस्तकानि अत्रैव अर्पितानि इति । अत एव अस्य मन्दिरस्य ’सिरवेल महादेव’ इति नाम । इदं मन्दिरं मध्यप्रदेशमहाराष्ट्रराज्ययोः सीमायाम् अस्ति इत्यतः मध्यप्रदेशमहाराष्ट्रराज्ययोः विविधस्थलेभ्यः श्रद्धालवः भक्ताः तत्र गच्छन्ति । अस्मिन् मण्डले बकावां एवं रावेरखेडी, देजला-देवडा, नन्हेश्वर, बडवाह-सनावद इत्यादीनि प्रमुखानि वीक्षणीयस्थालानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://khargone.nic.in
http://www.census2011.co.in/census/district/307-west-nimar.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=खरगौनमण्डलम्&oldid=7400" इत्यस्माद् प्रतिप्राप्तम्