खण्डवामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

खण्डवामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति खण्डवा इति नगरम् ।

भौगोलिकम्

खण्डवामण्डलस्य विस्तारः ७३५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खरगौनमण्डलम्, उत्तरे देवासमण्डलं, दक्षिणे बुरहानपुरमण्डलम् अस्ति । तत्र नर्मदा नदी वर्तते ।

जनसङ्ख्या

२०११ जनगणनानुगुणं खण्डवामण्डलस्य जनसङ्ख्या १३,१०,०६१ अस्ति । अत्र ६,७४,३२९ पुरुषाः, ६,३५,७३२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ६६.३९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- खण्डवा, पुनासा, हरसुद, पन्धाना, खलवा ।

वीक्षणीयस्थलानि

ओङ्कारेश्वरमन्दिरम्

इदं स्थलं नर्मदायाः तटे अस्ति । इदं मन्दिरं खण्डवा-नगरात् ७५ कि. मी. दूरे स्थितमस्ति । इदं हिन्दुजनानां पवित्रस्थलम् अस्ति । द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति तत्रस्थं शिवलिङ्गम् । बहवः भक्तजनाः प्रतिवर्षं दर्शनार्थं तत्र गच्छन्ति । वैदेशिकाः अपि तत्र भ्रमणार्थं गच्छन्ति । तत्रैव आद्यगुरुशङ्कराचार्यस्य गुहा अस्ति । इदं स्थलं द्वीपवत् जलावृतम् अस्ति ।

सागर-जलबन्धः

अयं जलबन्धः पुनासा-उपमण्डलस्य समीपे नर्मदानगरे अस्ति । अयं जलबन्धः खण्डवा-नगरात् ६१ कि. मी. दूरे अस्ति । जलबन्धस्य दृश्यं रमणीयम् अस्ति ।

तुलजाभवानीमाता-मन्दिरम्

इदं मन्दिरं ’दादाजी दरबार’ इत्यस्य पार्श्वे स्थितमस्ति । अस्मिन् मन्दिरे तुलजाभवानीमातुः सुन्दरा प्रतिमा अस्ति । अस्य मन्दिरस्य विषये अनेकाः पौराणिककथाः सन्ति । इदं मन्दिरं भगवतः रामस्य कालस्य अस्ति । प्रतिवर्षं नवरात्रिपर्वणि तत्र नवदिवसीयः उत्सवः भवति । अनेकाः भक्तजनाः तत्र दर्शनार्थं गच्छन्ति ।

नागचुन-जलबन्धः

अयं जलबन्धः खण्डवा-नगरात् ७ कि. मी. दूरे अस्ति । अयं जलबन्धः नगरस्य निकटतमं विहारस्थलमस्ति । ततः खण्डवा-नगरजनाः पेयजलं प्राप्नुवन्ति । जलबन्धं परितः विहारार्थम् अन्यान्यपि स्थलानि सन्ति । अस्मिन् मण्डले नवचण्डीदेवी धाम, दादा धूनी वाले बाबा खण्डवा इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://khandwa.nic.in/
http://www.census2011.co.in/census/district/333-east-nimar.html
http://www.bharatbrand.com/english/mp/districts/Khandwa/Khandwa.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=खण्डवामण्डलम्&oldid=2164" इत्यस्माद् प्रतिप्राप्तम्