इन्दौरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

इन्दौरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति इन्दौर इति नगरम् ।

भौगोलिकम्

इन्दौरमण्डलस्य विस्तारः ३,८९८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे धारमण्डलम्, उत्तरे उज्जैनमण्डलं, दक्षिणे खरगौनमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, क्षिप्रानदी च प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् इन्दौरमण्डलस्य जनसङ्ख्या ३२,७६,६९७ अस्ति । अत्र १६,९९,६२७ पुरुषाः, १५,७७,०७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८४१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.८८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८०.८७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ इन्दौर, देपलपुर, महु, सांवेर, हतोड ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः अपि सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः, विदेशात् च विद्यार्थिनः पठितुं तत्र गच्छन्ति । तेन कारणेन इदं मण्डलं प्रगतिशीलम् अस्ति ।

वीक्षणीयस्थलानि

खजराना गणेशमन्दिरम्

बहवः श्रद्धालवः इन्दौर-नगरवासिनः तथा समीपस्थनगरजनाः तत्र दर्शनार्थं गच्छन्ति । अस्य मन्दिरस्य निर्माणम् अहिल्याबाई होल्कर इत्यनया कारितम् । इयं मराठाराज्ञी आसीत् । इदं स्थलं हिन्दुजनानां कृते महत्वपूर्णमस्ति ।

गुरुद्वारा

इन्दौर-नगरं प्राक्तनादेव सिक्खधर्मेण सह संलग्नम् अस्ति । अस्मिन् नगरे एकं प्रसिद्धं गुरुद्वारा अस्ति । गुरुनानक ई. १५६७ तमे वर्षे तत्र गतः आसीत् ।

अन्नपूर्णामन्दिरम्

अन्नपूर्णामन्दिरं बहुसुन्दरं तथा पुरातनम् अस्ति । इन्दौर-नगरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे अन्नपूर्णामातुः सुन्दरप्रतिमा अस्ति । इदं तीर्थयात्राकेन्द्रमस्ति । तत्र न केवलं भक्ताः गच्छन्ति अपि तु पर्यटकाः अपि गत्वा मन्दिरस्य अवलोकनं कुर्वन्ति ।

बडा गणपति

अस्मिन् मन्दिरे गणेशस्य विशालप्रतिमा अस्ति । तेन कारणेन इदं प्रख्यातमस्ति । अस्य मन्दिरस्य निर्माणम् ई. १८७५ तमे वर्षे ’श्रीदधीच’ इत्यनेन कारितम् । अस्याः प्रतिमायाः उच्चता २५ फीट अस्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://indore.nic.in/
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html
http://www.census2011.co.in/census/district/306-indore.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=इन्दौरमण्डलम्&oldid=10451" इत्यस्माद् प्रतिप्राप्तम्