बडवानीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

बडवानीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बडवानी इति नगरम् ।

भौगोलिकम्

बडवानीमण्डलस्य विस्तारः ५,४२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खरगौनमण्डलं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे धारमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्य मण्डलस्य उत्तरभागे विन्ध्याचलपर्वतशृङ्खला तथा दक्षिणभागे सतपुडापर्वतशृङ्खला स्तः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बडवानीमण्डलस्य जनसङ्ख्या १३,८५,८८१ अस्ति । अत्र ६,९९,३४० पुरुषाः, ६,८६,५४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ४९.०८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- बडवानी, ठीकरी, अञ्जड, पाटी, राजपुर, पांसेमल, निवाली, सेन्धवा, वारला ।

वीक्षणीयस्थलानि

बावनगजा (चुलगिरि)

बावनगजा इति इदं स्थलं जैनानां तीर्थस्थलम् अस्ति । इदं स्थलं बडवानी-नगरात् ६ कि. मी. दूरे अस्ति । तत्र उपशैले १५ शताब्द्याः ११ मन्दिराणि सन्ति । तत्र भगवतः आदिनाथस्य बृहत्तमा प्रतिमा अस्ति । ग्वालबेडा, तीरगोला, नर्मदा पुल इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://barwani.nic.in/
http://www.census2011.co.in/census/district/308-barwani.html
http://www.mapsofindia.com/maps/madhyapradesh/tehsil/barwani.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=बडवानीमण्डलम्&oldid=5862" इत्यस्माद् प्रतिप्राप्तम्