शिवपुरीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

शिवपुरीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शिवपुरी इति नगरम् ।

भौगोलिकम्

शिवपुरीमण्डलस्य विस्तारः १०,०६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे श्योपुरमण्डलम्, उत्तरे ग्वालियरमण्डलं, दक्षिणे अशोकनगरमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं शिवपुरीमण्डलस्य जनसङ्ख्या १७,२६,०५० अस्ति । अत्र ९,१९,७९५ पुरुषाः, ८,०६,२५५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ६२.५५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- शिवपुरी, पोहरी, नरवर, करेरा, कोलारस, पिछोर, बदरवास, खनियाधन ।

वीक्षणीयस्थलानि

माधव-राष्ट्रिय-उद्यानम्

माधव-राष्ट्रियोद्यानं आगरा-मुम्बई मार्गे अस्ति । इदं स्थलं १५७.५२ चतुरस्रकिलोमीटरपरिमितं विस्तृतम् अस्ति । अस्मिन् उद्याने बहवः पशवः सन्ति । इदम् उद्यानं वन्यजीवनस्य स्वर्गं मन्यते ।

छतरी

छतरी इतीदं स्थलं शिवपुरी-नगरे स्थितमस्ति । इदं स्थलं सिन्धिया-वंशजैः निर्मापितम् । अस्मिन् स्थले एकं मुगल-उद्यानम् अस्ति । अत्र हिन्दु एवं मुस्लिम वास्तुकलायाः उपयोगः कृतः अस्ति । माधव विलास पैलेस, टाईगर सफारी, बाण गङ्गा इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://shivpuri.nic.in/
http://www.census2011.co.in/census/district/290-shivpuri.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=शिवपुरीमण्डलम्&oldid=9763" इत्यस्माद् प्रतिप्राप्तम्