गुनामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

गुनामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गुना इति नगरम् ।

भौगोलिकम्

गुनामण्डलस्य विस्तारः ६,३९० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे अशोकनगरमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे भोपालमण्डलम् अस्ति । अस्मिन् मण्डले द्वे नद्यौ प्रवहतः । ते सिन्धुनदी, पार्वतीनदी च ।

जनसङ्ख्या

२०११ जनगणनानुगुणं गुनामण्डलस्य जनसङ्ख्या १२,४१,५१९ अस्ति । अत्र ६,४९,३६२ पुरुषाः, ५,९२,१५७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१२ अस्ति । अत्र साक्षरता ६३.२३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- गुना, राघवगढ, चाचौडा, कुम्भराज, आरोन, बमोरी, मकसून्दागढ ।

वीक्षणीयस्थलानि

बीसभुजादेवी-मन्दिरम्

बीसभुजादेवी-मन्दिरं गुना-नगरात् ८ कि. मी. दूरे अस्ति । पर्वतस्य शिखरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे देव्याः विंशतिभुजाः सन्ति किन्तु आश्चर्यस्य विषयः अस्ति यत् मातुः भुजाः येन केनापि गणयितुं न शक्यते । यस्य उपरि मातुः कृपा भवति स एव गणयितुं शक्नोति इति मान्यता अस्ति । पुरा इदं लघुमन्दिरम् आसीत् किन्तु समयान्तरे अस्य जीर्णोद्धारः कृतः ।

बजरङ्गगढ-दुर्गः

बजरङ्गगढ-दुर्गस्य निर्माणं द्वादशशताब्द्यां राग-वंशजैः कारितम् । अयं दुर्गः कृष्णपाषाणयुक्तः अस्ति । अस्य भित्तिकासु आकर्षकाः मूर्तिकलाः सन्ति । ’हनुमान टेकरी’, ’गोपीकृष्ण-जलबन्धः’ अपि अस्य मण्डलस्य मुख्ये वीक्षणीयस्थले स्तः । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.guna.nic.in/
http://www.census2011.co.in/census/district/325-guna.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=गुनामण्डलम्&oldid=4576" इत्यस्माद् प्रतिप्राप्तम्