अलीराजपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

अलीराजपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अलीराजपुरम् इति नगरम् ।

भौगोलिकम्

अलीराजपुरमण्डलस्य विस्तारः २,१६५.२४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे झाबुआमण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अलीराजपुरमण्डलस्य जनसङ्ख्या ७,२८,९९९ अस्ति । अत्र ३,६२,५४२ पुरुषाः, ३,६६,४५७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.४५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०११ अस्ति । अत्र साक्षरता ३६.१०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- १ अलीराजपुरम् २ जोबट ३ भाभरा ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वन्यविस्तारः अधिकः । अस्य विस्तारस्य जठ्ठीवाडा इति नाम । अयं विस्तारः ‘मिनि काश्मीर’- इति विख्यतोऽस्ति । महुवानामकं पुष्पम् तत्र प्राप्यते । मदिरायाः निर्माणे महुवा-नामकस्य पुष्पस्य उपयोगः अस्मिन् मण्डले भवति इति विशेषः ।

वीक्षणीयस्थलानि

कठ्ठीवाडा-अरण्यम्

अयम् अरण्यं गाढम् अस्ति । अयम् अरण्यं ’मिनि काश्मिर’ इति अपि प्रसिद्धमस्ति । अयं विस्तृतम् अरण्यमस्ति ।

कठ्ठीवाडा-जलप्रपातः

अस्मिन् मण्डले स्थिते कठ्ठीवाडा-अरण्ये अयं जलप्रपातः अस्ति । इदम् अतिरमणीयस्थलम् अस्ति । वृष्टिकाले अधिकसङ्ख्यायां जनाः तत्र गच्छन्ति । वृष्टिकाले इदं स्थलम् हरितमयं भवति येन कारणेन भ्रमणे आनन्दः आयाति । तत्र गत्वा जनाः स्वकीयान् क्लेशान् विस्मृत्य प्रफुल्लिताः भवन्ति ।

मथवाड

अस्य मण्डलस्य दक्षिणभागे इदं स्थलम् स्थितमस्ति । इदं स्थलं परितः विन्ध्याचलपर्वतश्रृङ्खला अस्ति । इदं स्थलं उन्नतक्षेत्रे स्थितमस्ति । तत्र वन्यप्राणिनः बहवः सन्ति । अस्मिन् स्थले ’काजलरानी’ इत्यस्याः प्रसिद्धं मन्दिरमपि अस्ति । मथवाड-प्रदेशे अपि गाढम् अरण्यमस्ति यस्मिन् भल्लुकः, शशः, सिंहः, चित्रव्याघ्रः, व्याघ्रः इत्यादयः वन्यप्राणिनः सन्ति । इदं स्थलं मध्यप्रदेश-गुजरातराज्ययोः सीमायां स्थितम् अस्ति । तेन कारणेन अत्रस्थजनानां वेशभूषा, भाषा, संस्कृतिः च गुजरातराज्यजनसदृशी अस्ति ।

फलकम्:Geographic location

फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://alirajpur.nic.in/
http://www.bharatbrand.com/english/mp/districts/Alirajpur/Alirajpur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अलीराजपुरमण्डलम्&oldid=9832" इत्यस्माद् प्रतिप्राप्तम्