झाबुआमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

झाबुआमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति झाबुआ इति नगरम् ।

भौगोलिकम्

झाबुआमण्डलस्य विस्तारः ३,६०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे गुजरातराज्यं, दक्षिणे अलीराजपुरमण्डलम् अस्ति । अस्मिन् मण्डले माहीनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं झाबुआमण्डलस्य जनसङ्ख्या १०,२५,०४८ अस्ति । अत्र ५,१५,०२३ पुरुषाः, ५,१०,०२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.७०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ४३.३०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर ।

वीक्षणीयस्थलानि

रङ्गपुरा

रङ्गपुरा-ग्रामः झाबुआ-नगरस्य समीपे अस्ति । अस्मिन् ग्रामे रामपञ्चायत-मन्दिरं, जैन-मन्दिरं च अस्ति । अस्य नगरस्य समीपे एकं प्राचीनं शिवमन्दिरम् अपि अस्ति ।

देवझिरी

इदं स्थलं झाबुआ-नगरात् ८ कि. मी. दूरे स्थितमस्ति । अस्य स्थलस्य समीपे सुनारनदी प्रवहति । अस्मिन् स्थले भगवतः शिवस्य अनेकानि प्राचीनानि मन्दिराणि सन्ति । देवझिरी इत्यत्र एकः कुण्डः अपि अस्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://jhabua.nic.in/
http://www.census2011.co.in/census/district/331-jhabua.html
http://www.bharatbrand.com/english/mp/districts/Jhabua/Jhabua.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=झाबुआमण्डलम्&oldid=7874" इत्यस्माद् प्रतिप्राप्तम्