धारमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

धारमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति धार इति नगरम् ।

भौगोलिकम्

धारमण्डलस्य विस्तारः ८,१५३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे इन्दौरमण्डलं, पश्चिमे झाबुआमण्डलम्, उत्तरे रतलाममण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी, चम्बलनदी च प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं धारमण्डलस्य जनसङ्ख्या २१,८५,७९३ अस्ति । अत्र ११,१२,७२५ पुरुषाः, १०,७३,०६८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ५९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- धार, बदनावर, सरदारपुर, गन्धवानी, कुक्शी, दाही, मनावर, धरमपुर ।

वीक्षणीयस्थलानि

धार-दुर्गः

धार-दुर्गः धार-नगरस्य उत्तरदिशि अस्ति । अयं दुर्गः एकस्मिन् उपशैले स्थितः अस्ति । अस्य निर्माणं रक्तपाषाणैः कृतम् अस्ति । अयं दुर्गः विशालः, विस्तृतः च अस्ति । अस्य निर्माणं सुल्तान मोहम्मद बिन तुगलक इत्यनेन चतुर्दशतमाशताब्द्यां कारितम् । अस्य दुर्गस्य निर्माणं हिन्दु-मुस्लिम-अफगान-शैलीषु कृतमस्ति । अयं दुर्गः पर्यटकानां आकर्षणकेन्द्रम् अस्ति ।

भोजशाला

भोजशाला इत्यत्र पुरा सरस्वतीमातुः सुन्दरा प्रतिमा आसीत् । राज्ञा भोजेन अस्य निर्माणं कारितम् । किन्तु यदा अलाउद्दीन खिलजी दिल्ली-साम्राज्यस्य शासकः अभवत् तदा तेन अस्मिन् स्थले ’मस्जिद’ इत्यस्य निर्माणं कारितम् । इदानीमपि भोजाशाला-’मस्जिद’ इत्यस्मिन् स्थले संस्कृतभाषायाम् अनेकाः अभिलेखाः सन्ति । ते अभिलेखाः प्राचीनमन्दिरस्य प्रमाणीभूताः सन्ति । माण्डु, जहाज-महल, हिण्डोला-महल, जामी ’मस्जिद’ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://dhar.nic.in/
http://www.census2011.co.in/census/district/305-dhar.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=धारमण्डलम्&oldid=4338" इत्यस्माद् प्रतिप्राप्तम्