बाडमेरमण्डलम्
१७:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
बाडमेरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बाडमेरनामकं नगरम् ।
भौगोलिकम्
बाडमेरमण्डलस्य विस्तारः २८३८७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पालीमण्डलं, जोधपुरमण्डलं च, पश्चिमे पाकिस्थानदेशः, उत्तरे जैसलमेरमण्डलं, दक्षिणे जालौरमण्डलम् अस्ति । अस्मिन् मण्डले केवलं २९.९९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
जनसङ्ख्या
२०११ जनगणनानुगुणं बाडमेरमण्डलस्य जनसङ्ख्या ८३५१७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२ जनाः । अत्र साक्षरता ५७.४९ % अस्ति ।
उपमण्डलानि
अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते-
- बाडमेर
- बलोटरा
वीक्षणीयस्थलानि
अस्मिन् मण्डले विद्यमानानि वीक्षणीयस्थलानि तु -
- गड सिवाना
- जूना बाडमेर
- जैनमन्दिराणि