जालौरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

In bhadrajun.jpg

जालौरमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जालौरनामकं नगरम् ।

भौगोलिकम्

जालौरमण्डलस्य विस्तारः १०६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे बाडमेरमण्डलं, पालीमण्डलं च, दक्षिणे सिरोहीमण्डलं, गुजरातराज्यं च अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र सुक्री इत्येका एव नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जालौरमण्डलस्य जनसङ्ख्या १८३०१५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ५५.५८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • अहौर
  • जालौर
  • भीनमाल
  • रानीवाडा
  • साञ्चोर
Kailash Dham Bishangarh.jpg

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कैलाशधाम
  • हनुमानमन्दिरम्
  • सुन्धा मटा
  • भद्रार्जुन किला

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=जालौरमण्डलम्&oldid=2601" इत्यस्माद् प्रतिप्राप्तम्