हेळवनकट्टे गिरियम्मा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

हेळवनकट्टे गिरियम्मा श्रेष्ठा कीर्तनकारी । कर्णाटकराज्यस्य धारवाडमण्डलस्य राणेबेन्नूरु एतस्याः जन्मस्थानम् । सामान्यतः अष्टादशशतकस्य मध्यभागे (क्रि.श. १७५०तमे काले जीवितवती) एषा जन्म प्राप्तवती । एतस्याः पितुः नाम "बिष्टप्पदीक्षितः" माता "तुङ्गम्म" । दम्पत्योः बहुकालं सन्तानं नासीत् । तिरुपतेः वेङ्कटेश्वरस्य दर्शनानन्तरं पुत्रीजननम् अभवत् । अतः तस्याः नाम गिरियम्म् (गिरिपुत्री) इति अकरोत् । एषा हेळवनकट्टे रङ्गनाथं पूजयन्ती आसीत् । एषा श्रीरङ्गं लिङ्गं चापि पूजयन्ती आसीत् । सर्वे एतस्याः विषये भक्तिमन्तः आसन् । एतया लिखितानि गीतानि इदानीम् अपि जनाः भक्त्या गायन्ति ।

बाल्यम्

बाल्ये एव गिरियम्मा स्तोत्रपाठेषु सोत्राणि पठति स्म पूजाकार्येषु साहाय्यम् आचरति स्म । अस्याः चतुर्थे वयसि माता दिवङ्गता । कञ्चित्कालानन्तरं पिता अपि दिवङ्गतः । गिरियम्मा पितृव्यस्य वात्सास्याश्रये संवर्धिता । यौवने एषा देवतासङ्कीर्तनं कुर्वती नृत्यन्ती भाववशा भवति स्म । कुलबान्धवैः सह कदाचित् मलेबेन्नूरु रङ्गनाथस्वामिनः मन्दिरं गतवती । उडुपियात्रायं गच्छतः गोपालदास्य दर्शनम् अकस्मात् प्राप्तवती ।

विवाहः

तत्कालीनसम्प्रदायानुगुणं गिरियम्मायाः बाल्ये एव विवाहः अभवत् । मलेबेन्नूरुग्रामस्य शानुभोगकृष्णप्पस्य पुत्रः "तिप्परसः" एतां परिणीतवान् । किन्तु गिरियम्मायाः मनः रङ्गनाथस्वामिनि एव स्थिरा अभावत् । लौकिकोपभोगात एषा विरता आसीत् । तस्य मनः ज्ञात्वा पतिः तस्यः प्रवृत्तिं न विरोधितवान् । किन्तु श्वश्रुवः पीडा प्रतिदिनं वर्धमाना आसीत् । अन्ते गिरियम्मा एव अनुपमां कन्याम् अन्विष्य तिप्परसस्य द्वितीयविवाहं कारितवती ।

उपलब्धिः

आध्यात्मिकपथे गच्छन्ती हेळवनकट्टे गिरियम्मा रङ्गनाथस्वामिनः दर्शनार्थं पुरुधा अगच्छाति स्म । महाभक्तायाः गिरियम्मायाः आशीर्वादेन बहूनां श्रद्धालूनां जीवनसमस्याः परिहृताः अभवन् । बाल्ये कदाचित् उडुपीगमनमार्गे दर्शनम् अनुगृहीतवान् गोपालदासः कालान्तरे पुनः उडुपीमार्गे गच्छन् गिरियम्मां दृष्ट्वा बालगोपालस्य विग्रहं दत्त्वा अनुगृह्य। हेळवनकट्टे रङ्ग इति अङ्कितेन देवतासङ्किर्तनानि रचियितुं तां सूचितवान् । मन्त्रालयस्य मठाधीशः श्री सुमतीन्द्रः यदा मलेबेन्नूरु आगतवान् तदा गिरियम्मायै तीर्थानुग्रहं तस्याः विरोधिनः निषेधितन्तः । किन्तु करुणालुः स्वामी सुमतीन्द्रः तीर्थं दत्तवान् ।

लीलाः

रङ्गनाथस्वामिनः मूर्तेः अङ्गुलीयकं यदा नष्टं तदा चटकया प्राप्तिः, मृतशिशोः पुनर्जीवनम्, अन्धबालस्य दृष्टिः इत्याद्यः अलौकिकाः लीलाः गिरियम्मा कृतवतीति प्रतीतिः अस्ति । कदाचित् तस्याः ग्रामे तीव्रः क्षामः आपतितः तदा अस्याः गानेन वृष्टिः आगता इति अपि वदन्ति ।

जलसमाधिः

होन्नाळि इति ग्रामस्य समीपे तुङ्गभाद्रानद्याः तटे कम्मारकट्टे इति ग्रामः अस्ति । कदाचित् श्रावणशुद्धपञ्चमदिने गिरियम्मा प्रवाहे जलसमाधिं गता । तस्मिन् स्थले सोपानानि मारुतिमन्दिरम् अपि सा एव निर्मितवती इति प्रतीतिः । हेळवनकट्टे श्री लक्ष्मीरङ्गनाथदेवालयः भारतस्य कर्णाटकराज्यस्य दावणगेरेमण्डलस्य हरिहरोपमण्डलस्य कोमारनहळ्ळि प्रदेशे अस्ति ।

साहित्यम्

क्रि.श. १२७५ तमे काले नरहरितीर्थेन आरब्धस्य दाससहित्यपरम्परायाः अन्तिमकटकः । गिरियम्मा न केवलं देवतासङ्कीर्तनानि किन्तु सप्तविशेषकृतयः अपि रचितवती ।

  • कृष्णकोरवञ्जि
  • ब्रह्मकोरवञ्जि
  • उद्दाळिकनकथे
  • सीताकल्याण
  • शङ्करगण्डन हाडु
  • चन्द्रहासन कथे

सन्दर्भाः

फलकम्:Reflist

फलकम्:कर्णाटकस्य हरिदासाः

"https://sa.bharatpedia.org/index.php?title=हेळवनकट्टे_गिरियम्मा&oldid=592" इत्यस्माद् प्रतिप्राप्तम्