गोपालदासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

परिचयः

गोपालदासः श्रेष्ठः कीर्तनकारः । गोपालदासस्य ग्रामः कर्णाटकराज्यस्य रायचूरुमण्डलस्य जनपदस्य देवनदुर्गौपमण्डलस्य मसरुकल्लु । शा.श १६४० (क्रि.श १७१८)तमे वर्षे एषः जन्म प्राप्तवान् । अस्य कालः क्रि.सा १७२१ तः क्रि.श.१७६२तमवर्षपर्यन्तम् । एतस्य पितुः नाम "मुरारिरायः" मातुः नाम "वेङ्कम्मा" । दासण्णः शीनप्पः, रङ्गप्पः इति त्रयः एतस्य अनुजाः आसन् । अस्य पूर्वाश्रमस्य नाम भगण्णः इति । एते सर्वे अपि दासकूटं स्वीकृतवन्तः । गोपालदासः विजयदासस्य शिष्यः । एतस्य अनेके शिष्याः आसन्। जगन्नाथदासः अपि एतस्य शिष्येषु अन्यतमः । एषः गृहस्थाश्रमं न समाश्रयत् । भागण्णदासः चित्रभानुसंवत्सरे पुष्यबहुल-अष्ठमीतिथौ शनिवासरे मरणं प्राप्तवान् । उत्तनूरुग्रामे अस्य स्मारिका वृन्दावनम् अस्ति ।

कृतयः

गोपालदासस्य पद्याङ्कितं तु गोपालविठल इति । पूर्वः एषः "वेङ्कटकृष्णः" इति अङ्किते लिखति स्म इति किंवदन्ती अस्ति । एतावति काले लब्धाः अस्य कृतयः "१८३"।

फलकम्:हरिदासाः

"https://sa.bharatpedia.org/index.php?title=गोपालदासः&oldid=1015" इत्यस्माद् प्रतिप्राप्तम्