रुद्रप्रयागमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement रुद्रप्रयागमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रप्रयाग इति नगरम् । रुद्रप्रयागमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

भौगोलिकम्

रुद्रप्रयागमण्डलस्य विस्तारः २,४३९ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि चमोलीमण्डलं, पश्चिमदिशि टिहरीगढवालमण्डलम् अस्ति ।

जनसङ्ख्या

रुद्रप्रयागमण्डलस्य जनसङ्ख्या(२०११) २,४२,२८५ अस्ति । अत्र १,१४,५८९ पुरुषाः, १,२७,६९६ स्त्रियः, ३२,०४६ बालकाः (१६,८२३ बालकाः, १५,२२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१११४ अस्ति । अत्र साक्षरता ८१.३०% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.९०% स्त्री – ७०.३५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- रुद्रप्रयाग, उखीमठ, जखोली

वीक्षणीयस्थलानि

रुद्रप्रयागः

अलकनन्दा-मन्दाकिनी-नद्योः तीरे स्थतमस्त्येतत् तीर्थक्षेत्रम् । अस्मिन् स्थले अलकन्दा-मन्दाकिन्योः सङ्गमो भवति । पुराणेषूल्लिखितं यत्, नारदः अस्मिन् स्थले यदा तपः आचरन् आसीत्, तदा शिवः तस्मै रुद्रावताररूपेण दर्शनं प्रादात् । तदारभ्य अत्र रुद्रमन्दिरमस्ति । अतः अस्य स्थलस्य नाम रुद्रप्रयाग इति ।

अगस्त्यर्षेः आश्रमः

रुद्रप्रयागात् अष्टादश (१८) कि.मी. दूरे स्थितः अगस्त्यर्षेः आश्रमः पौराणिकतथ्यान् सिद्धयति । पुराणानुसारम् अगस्त्यर्षिः तत्रैव तपस्तपति स्म । तत्र अगस्त्येश्वरमहादेवमन्दिरमस्ति । तस्मिन् मन्दिरे नित्यं भगवतः शिवस्य पूजा भवति । एतत् मन्दिरं स्थापत्यकलायाः उत्कृष्टम् उदाहरणमस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – गुप्तकाशी, जखोली, सोनप्रयाग, खिर्सू, गौरीकुण्डः, देवरीयाताल, उखीमठ, वासुकीताल ।

फलकम्:Geographic location

बाह्यानुबन्धः

http://rudraprayag.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/rudraprayag.htm

http://dcrud.uk.gov.in/

http://www.euttaranchal.com/uttaranchal/rudraprayag.php

http://timesofindia.indiatimes.com/topic/Rudraprayag-district

फलकम्:उत्तराखण्डस्य मण्डलानि फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=रुद्रप्रयागमण्डलम्&oldid=1856" इत्यस्माद् प्रतिप्राप्तम्