चमोलीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement चमोलीमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोपेश्वर इति नगरम् । चमोलीमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । अस्य land of forts इति नामान्तरमस्ति ।

भौगोलिकम्

चमोलीमण्डलस्य विस्तारः ७,६१३ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, चीनदेशः च, दक्षिणदिशि बागेश्वरमण्डलम्, अल्मोडामण्डलं च, पूर्वदिशि पिथौरागढमण्डलं, पश्चिमदिशि रुद्रप्रयागमण्डलम् अस्ति ।

जनसङ्ख्या

चमोलीमण्डलस्य जनसङ्ख्या(२०११) ३,९१,६०५ अस्ति । अत्र १,९३,९९१ पुरुषाः, १,९७,६१४ स्त्रियः, ५२,१६१ बालकाः (२७,६०९ बालकाः, २४,५५२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१९ अस्ति । अत्र साक्षरता ८२.६५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चमोली २ पोखरी ३ कर्णप्रयाग ४ थराली ५ गैरसैंण ।

वीक्षणीयस्थलानि

बदरीनाथः

भारतस्य प्रसिद्धेषु चतुर्धामसु अन्यतमः बदरीनाथः चमोलीमण्डले राराजते । नर-नारयणयोः सङ्गमस्थलमेतत् प्रतिवर्षं लक्षशः भक्तान् आकर्षयति । धर्मशास्त्रानुसारम् अस्य प्रदेशस्य नाम विशालपुरी इत्यपि अस्ति । अतः अस्य नामान्तरं बदरीविशालः इति । बदरीनाथमन्दिरं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । मन्दिरस्य मुख्यद्वारस्य नाम सिंहद्वारम् इति । पौराणिककथानुसारमस्य मन्दिरस्य स्थापना सत्ययुगे अभूत् । अत एव अस्य धाम्नः उल्लेखः बहुषु प्रमुखेषु धर्मग्रन्थेषु प्राप्यते । मन्दिरे चतुर्भुजस्य विष्णोः कृष्णवर्णीया लघ्वी मूर्तिरस्ति । भगवतः विष्णोः पूजा भवति अत्र । अत्र भगवान् बदरीविशालः पद्मासनस्थः अस्ति । भगवतः मूर्तेः सुवर्णमुकुटः वज्रेण शोशुभ्यते (be very splendid) । अत्र अन्यानां देवी-देवतानामपि मूर्तयः सन्ति । नारायणः, उद्धवः, कुबेरः, नारदः, लक्ष्मीः चात्र विराजन्ते ।

'हेमकुण्ड साहिब' गुरुद्वारम्

सिक्खसम्प्रदायस्य पवित्रं हेमकुण्डसाहिब-गुरुद्वारं हिमालयस्य उन्नते पर्वते स्थितमस्ति । दुष्प्राप्यं हेमकुण्डगुरुद्वारं १५,००० पादः उद्यते शिखरे स्थितमस्ति । ग्रीष्मकाले तत्र लक्षशः भक्ताः गच्छन्ति ।

भविष्यबदरी

सुबैन-पत्तनात् सप्तदश (१७) कि.मी. दूरे जोषीमठे स्थितमस्ति भविष्यबदरीमन्दिरम् । धौलीगङ्गानद्याः तीरे स्थितमस्त्येतन्मन्दिरम् । धौलीगङ्गा इति नाम तु गङ्गायाः शुभ्रजलत्वादस्ति । धौली अर्थात् श्वेतः, अत्र गङ्गां श्वेतगङ्गा इत्यपि कथयन्ति जनाः ।

गोपीनाथमन्दिरम्

गोपेश्वर-नगरात् दश (१०) कि.मी. दूरे स्थितमस्ति गोपीनाथमन्दिरम् । मन्दिरस्योपरि बृहत् स्तूपः (dome) अस्ति । मन्दिरस्य चतुर्विंशतिः (२४) द्वाराणि सन्ति । द्वादशेऽब्देऽस्य मन्दिरस्य स्थापनाभूदिति इतिहासे उल्लेखः प्राप्यते ।

रूद्रनाथ:

सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । गोपेश्वर-नगरात् एकविंशतिः (२१) कि.मी. दूरे स्थितमस्ति रूद्रनाथमन्दिरम् । भगवतः शिवः पूजा भवति अत्र । अत्र भगवान् रुद्रावताररूपेण पद्मासनस्थः अस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – औली, त्रिसुल गिरी, नंदा: देवी राष्ट्रियोद्यानम्, नीलकंठ:।फलकम्:Geographic location

सम्बद्धाः लेखाः

चमोली गोपेश्वरम्

बाह्यानुबन्धः

http://chamoli.nic.in/

http://www.euttaranchal.com/uttaranchal/chamoli.php

http://www.euttaranchal.com/tourism/chamoli.php

http://www.okuttarakhand.com/chamoli-district/

http://timesofindia.indiatimes.com/topic/Chamoli-District

फलकम्:उत्तराखण्डस्य मण्डलानि फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=चमोलीमण्डलम्&oldid=6604" इत्यस्माद् प्रतिप्राप्तम्