धलाइमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

धलाइमण्डलं (फलकम्:Lang-bn फलकम्:Lang-en) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आमबाशा(Ambassa) इत्येतन्नगरम् ।

भौगोलिकम्

धलाइमण्डलस्य विस्तारः २,५२३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि उत्तरत्रिपुरामण्डलं, पश्चिमदिशि खोवइमण्डलम्, उत्तरदिशि उनाकोट्टीमण्डल, दक्षिणदिशि बाङ्गलादेशः अस्ति ।

जनसङ्ख्या

धलाइमण्डलस्य जनसङ्ख्या(२०११) ३,७८,२३० अस्ति । अस्मिन् १,९४,५४४ पुरुषा:, १,८३,६८६ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.८५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ८५.७२ % अस्ति । मण्डलेऽस्मिन् ८९% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्

मण्डलमिदं १९९५ तमे वर्षे संस्थापितमस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च-उपमण्डलानि सन्ति । तानि-

  • आमबाशा
  • सलेमा
  • मनु
  • छामनु
  • डम्बरनगरम्

लोकजीवनम्

मण्डलेऽस्मिन् लेमङ्ग बुमानी, धमेल, हजागिरी इत्येतानि विशिष्टानि नृत्यानि प्रचलन्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • ब्रह्मकुन्द, सिन्हा
  • खोवल
  • बिशालनगरम्
  • नीरमहाल
  • त्रिषा
  • लोङ्गथलाइ मन्दिरम्
  • कमलेश्वरी मन्दिरम्
  • रास मेला

बाह्यानुबन्धाः

फलकम्:त्रिपुराराज्यम्

"https://sa.bharatpedia.org/index.php?title=धलाइमण्डलम्&oldid=1832" इत्यस्माद् प्रतिप्राप्तम्