उत्तरत्रिपुरामण्डलम्
उत्तरत्रिपुरामण्डलं (फलकम्:Lang-bn फलकम्:Lang-en) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धर्मनगर (Dharmanagar) इत्येतन्नगरम् ।
भौगोलिकम्
उत्तरत्रिपुरामण्डलस्य विस्तारः १,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मिजोरामराज्यं, पश्चिमदिशि धलाइमण्डलम्, उत्तरदिशि आसामराज्यं, दक्षिणदिशि बाङ्गलादेशः अस्ति । द्वे पर्वतावली स्त:, ते जम्पुइ, सकन् ।
जनसङ्ख्या
उत्तरत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) ६,९३,९४७ अस्ति । अस्मिन् ३,५२,८६० पुरुषा:, ३,४१,०८७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६७ अस्ति । अत्र साक्षरता ८७.५० % अस्ति । मण्डलेऽस्मिन् ८२.६७% जना: ग्रामेषु निवसन्ति ।
ऐतिहासिकं किञ्चित्
आङ्ग्लप्रशासका: १७६१ तमे वर्षे इमं प्रदेशं प्रविष्टवन्त: । परं १८७१ तमवर्षपर्यन्तं कोऽपि तत्र प्रशासकत्वेन नासीत्, अत: १८७१ तमवर्षपर्यन्तं स्वतन्त्रमेव आसीत् । १९४९ तमवर्षे विलीनिकरणसमये भारतदेशे समाविष्ट: जात: । उत्तरत्रिपुरामण्डलस्य विभाजनं कृत्वा १९९५ तमे वर्षे धलाइमण्डलं संस्थापितमस्ति ।
विभागा:
अस्य मण्डलस्य उपमण्डलानि त्रिषु विभागेषु विभक्तानि ।
- धर्मनगरम्
- काञ्चनपुर
- पानिसागर
मण्डलानां षड्विभागा: प्रशासनार्थं कृता:
- पानिसागर
- कदम्ताल
- दमचेर्रा
- दस्डा
- जुबरजनगरम्
- जम्पुइ हिल्स्
मण्डलेऽस्मिन् अष्ट-उपमण्डलानि सन्ति । तानि -
- पानिसागर
- कदम्ताल
- दमचेर्रा
- दस्डा
- जुबरजनगरम्
- जम्पुइ हिल्स्
- कैलासहर
- पेञ्चर्थाल्
- कुमार्गहत्
लोकजीवनम्
मण्डलेऽस्मिन् त्रिपुरी, कोलोइ, हलम्, चक्मा इत्येता: जनजातय: निवसन्ति ।
वीक्षणीयस्थलानि
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- जम्पुइ हिल्स्
- लक्ष्मीनारायणमन्दिरम्
- भगवतीमन्दिरम्
- कुमारघाट