बाङ्गलादेशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox country

बाङ्गलादेशः (फलकम्:Lang-bn) तु आधिकारिकरूपेण "जनानां बाङ्गलादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्गलादेशस्थं नगरम्। बाङ्गलादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

अद्यतनस्य बाङ्गलादेशस्य सीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।

सन्दर्भाः

फलकम्:Reflist

बाह्यशृङ्खला

फलकम्:एशियाखण्डस्य देशाः फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=बाङ्गलादेशः&oldid=6218" इत्यस्माद् प्रतिप्राप्तम्