शाजापुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

शाजापुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शाजापुरम् इति नगरम् ।

भौगोलिकम्

शाजापुरमण्डलस्य विस्तारः ६,१९५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजगढमण्डलं, पश्चिमे उज्जैनमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे देवासमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं शाजापुरमण्डलस्य जनसङ्ख्या १५,१२,६८१ अस्ति । अत्र ७,८०,५२० पुरुषाः, ७,३२,१६१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ६९.०९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- शाजापुरम्, सुसनेर, बडोद, नलखेडा, आगर, मोमन बडोलिया, गुलाना, शुजालपुर, कालपीपल ।

वीक्षणीयस्थलानि

बगलामुखी-माता-मन्दिरम्

बगलामुखी-माता-मन्दिरं नलखेडा-ग्रामे स्थितमस्ति । इदं मन्दिरं बहुप्रसिद्धं, बहुप्राचीनं च अस्ति । अस्मिन् मन्दिरे बहवः तान्त्रिकाः साधनां कुर्वन्ति । तेन कारणेन इदं मन्दिरं तन्त्रसाधनायै प्रसिद्धमस्ति ।

पार्श्वनाथ-मन्दिरम्

पार्श्वनाथ-मन्दिरं भारतस्य प्रसिद्धेषु मन्दिरेषु अन्यतमम् अस्ति । इदं मन्दिरं जैनसम्प्रदायस्य तीर्थस्थलमस्ति । अस्मिन् मन्दिरे पार्श्वनाथस्य मूर्तिः अस्ति ।

करेडी-माता-मन्दिरम्

करेडी-माता-मन्दिरं शाजापुर-नगरात् १० कि. मी. दूरे स्थितम् अस्ति । मन्दिरमिदं कनकावती-माता-मन्दिरम् इत्यपि प्रसिद्धमस्ति । करेडी-माता-मन्दिरं मालवा-प्रान्तस्य मुख्यं पूजनीयस्थलम् अस्ति ।

फलकम्:Geographic location

फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.shajapur.nic.in/
http://www.census2011.co.in/census/district/303-shajapur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=शाजापुरमण्डलम्&oldid=3171" इत्यस्माद् प्रतिप्राप्तम्