राजगढमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

राजगढमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजगढ इति नगरम् ।

भौगोलिकम्

राजगढमण्डलस्य विस्तारः ६,१५३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भोपालमण्डलं, पश्चिमे शाजापुरमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे शाजापुरमण्डलम् अस्ति । अस्मिन् मण्डले पार्वतीनदी, नेवजनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं राजगढमण्डलस्य जनसङ्ख्या १५,४५,८१४ अस्ति । अत्र ७,९०,२१२ पुरुषाः, ७,५५,६०२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ६१.२१% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- राजगढ, खिलचीपुर, जीरापुर, ब्यावरा, सारङ्गपुर, पछोर, नरसिंहपुर ।

वीक्षणीयस्थलानि

जल्पा-माता-मन्दिरम्

जल्पा-माता-मन्दिरं राजगढ-नगरात् ४ कि. मी. दूरे अस्ति । इदं मन्दिरं लघुपर्वते स्थितमस्ति । मन्दिरात् सम्पूर्णनगरं दृश्यते । इदं परितः काननं वर्तते । कानने अनेकाः पादपाः सन्ति । नवरात्रिमहोत्सवे भक्ताः दर्शनार्थं मन्दिरं गच्छन्ति ।

नरसिंहगढ अभ्यारण

नरसिंहगढ अभ्यारण इत्यस्य स्थापना ई. १९७८ तमे वर्षे अभवत् । इदं स्थलं भोपाल-नगरात् ७० कि. मी. दूरे स्थितमस्ति । इदम् अभयारण्यं समुद्रतलात् ५७६ मी. उपरि अस्ति । इदम् अभयारण्यं ५७ चतुरस्रकिलोमीटरपरिमितं विस्तृतमस्ति । अत्र प्राकृतिकसौन्दर्यता अस्ति । अतः अस्य अपरं नाम Kashmir of Malwa इति । अस्य अभयारण्यस्य मध्ये एकः तडागः अपि अस्ति । सः तडागः आकर्षणस्य केन्द्रम् अस्ति । पर्यटकाः आनन्दाय तत्र गच्छन्ति । राजगढ इत्यत्र ’दरगाह शरीफ’, कोतरा, खोयरी महादेव-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://rajgarh.nic.in/
http://www.census2011.co.in/census/district/309-rajgarh.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=राजगढमण्डलम्&oldid=2765" इत्यस्माद् प्रतिप्राप्तम्