रतलाममण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

रतलाममण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रतलाम इति नगरम् ।

भौगोलिकम्

रतलाममण्डलस्य विस्तारः ४,८६१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उज्जैनमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे मन्दसौरमण्डलं, दक्षिणे धारमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं रतलाममण्डलस्य जनसङ्ख्या १४,५५,०६९ अस्ति । अत्र ७,३८,२४१ पुरुषाः, ७,१६,८२८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६६.७८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- रतलाम, पिपलोदा, आलोट, ताल, जावरा, सैलाना, बाजना ।

कृषिः वाणिज्यं च

इदं मण्डलं मध्यप्रदेशराज्यस्य उद्यमकेन्द्रं मन्यते । अस्मिन् मण्डले बहवः यन्त्रागाराः सन्ति । अस्मिन् मण्डले बहूनां वस्तूनां व्यापारः भवति ।

वीक्षणीयस्थलानि

शिवमन्दिरम्

शिवमन्दिरं रतलाममण्डलस्य झार-ग्रामे स्थितमस्ति । मन्दिरेऽस्मिन् भगवतः शिवस्य सुन्दरं लिङ्गम् अस्ति । इदं मन्दिरं परमार-शासनकालीनम् अस्ति । अत्र एकः जलप्रपातः अस्ति । वर्षाकाले बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।

गुलाब चक्कर पुरातत्व-सङ्ग्रहालयः

गुलाब चक्कर पुरातत्व-सङ्ग्रहालयस्य निर्माणम् ई. १८७९ तमे वर्षे राज्ञा रणजीतसिंहेन (१८६१-१८९३) कारितम् । अस्य सङ्ग्रहालयस्य नाम राजपुत्र्याः नाम्ना कारितम् । अस्य स्थितिः अव्यवस्थया जर्जरी आसीत् । अस्य पुनः जीर्णोद्धारः कृतः । इदानीम् इदं स्थलं जनानाम् आकर्षणस्य केन्द्रमस्ति । सैलाना इत्यत्र ’केक्टस गार्डन’, जावरा इत्यत्र ’हुसैन टेकरी’, केदारेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://ratlam.nic.in/
http://www.census2011.co.in/census/district/301-ratlam.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=रतलाममण्डलम्&oldid=1455" इत्यस्माद् प्रतिप्राप्तम्