बुरहानपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

बुरहानपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बुरहानपुरम् इति नगरम् ।

भौगोलिकम्

बुरहानपुरमण्डलस्य विस्तारः ३,७२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे खण्डवामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले तापीनदी प्रवहति । अस्य मण्डलस्य उत्तरभागे सतपुडापर्वतशृङ्खला स्तः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बुरहानपुरमण्डलस्य जनसङ्ख्या ७,५७,८४७ अस्ति । अत्र ३,८८,५०४ पुरुषाः, ३,६९,३४३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ६४.३६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बुरहानपुरम्, नेपानगर, खकनार ।

वीक्षणीयस्थलानि

राजा की छतरी

राजा की छतरी नामकम् इदं स्थलं बुरहानपुर-नगरात् ४ माइल (mile) दूरे अस्ति । इदं स्थलं तापीनद्याः तटे अस्ति । श्रूयते यत् अस्य मण्डलस्य निर्माणं मुगलसम्राट् औरङ्गजेब नामाख्यः राजाजयसिंहस्य सम्माने कारितवान् इति । दक्खन-शासने राजाजयसिंहः मुगलसेनायाः सेनापतिरासीत् । दक्खन-अभियानात् पुनरागमने बुरहानपुर-नगरे राजाजयसिंहस्य मृत्युरभवत् । अतः अस्मिन् नगरे एव राजाजयसिंहस्य दाहसंस्कारम् अभवत् ।

इच्छादेवी-मन्दिरं, खूनी भण्डारा, ’शाही हमाम’, गुरुद्वारा, असीरगढ इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://www.burhanpur.nic.in/
http://www.census2011.co.in/census/district/334-burhanpur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=बुरहानपुरमण्डलम्&oldid=4660" इत्यस्माद् प्रतिप्राप्तम्