कौशिकी नदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Geobox

कौशिकीजलावसेचनम्

कौशिकी नदी चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - अरुणः, वरुणः, तमोरः, सुनकोशी, दुधकोशी, तामाकोशी (भोटेकोशी) इन्द्रावती [१]

पूर्वीय हिन्दूवैदिकधर्मसंस्कृतौ नद्याः अतीव महत्वपूर्णस्थानमस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणीदेव्याः एतादृशवाक्येन क्षमां प्रार्थयन्ति हैन्दवाः ।

समुद्रवसने देवि पर्वतस्तनमण्डले ।

विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।

पूर्वीयसंस्कृतौ पर्वतानां नदीनाञ्च तादृशं स्थानं कल्पितम् । नद्यः तु मातृस्थाने विराजन्ते नेपालीयहृन्मन्दिरेषु । तासां नामानि अपि स्त्रीप्रत्ययान्तानि भवन्ति एव । नद्यस्तु नेपालवासिनां जनानाम् जीवनस्य अविभाज्यं अङ्गमस्ति । अस्मिन् देवभूमौ सहस्राधिकाः नद्यः वहन्ति । इत्येव अस्या भूम्याः सौभाग्यम् ।

नदीपरिचयम् उद्भवञ्च

पौराणिकमहत्त्वम्

सप्तकाैशिक्याः तीरे वराहक्षेत्र नामधेयं अतीव पवित्रं प्रसिद्धञ्च हिन्दूतीर्थस्थलं वर्तते । इदं स्थानं धरानतः २५ किलाेमिटर पश्चिमाेत्तरस्यां दिशि स्थिताेस्ति । वराहपुराणे एतत्क्षेत्रस्य महत्त्वपूर्णवर्णनं वर्तते । अष्टादशपुराणेषु अन्यतमं वर्तते इदं पुराणम् । इदं किञ्चन प्राचीनं पुराणम्

सप्तकौशिक्याः प्राकृतस्थिति

अस्माकम् देशस्य प्रकृतिसम्पदा समृद्धोsस्ति । पूर्वीयवाङ्मये पृथ्वी, जलम्, वायुः, अग्निः, अाकाशेति महापञ्चमहाभूतात्मकानि प्रकृतिः । पञ्चमहाभूते जलस्य सर्वाेपरि स्थानम् वर्तते । सप्तकाैशिक्याः जलं शुद्धं निर्मलञ्च । अस्माकं परमपावनी सप्तकाैशिकी गङ्गा पुण्यनदीरूपेण तिष्ठेत् सदैव ।

सन्दर्भ सामग्रयः

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

फलकम्:भारतस्य नद्यः फलकम्:नेपालदेशस्य नद्यः

  1. Nayak, J. (1996). Sediment management of the Kosi River basin in Nepal. In: Walling, D. E. and B. W. Webb (eds.) Erosion and Sediment Yield: Global and Regional Perspectives. Proceedings of the Exeter Symposium July 1996. IAHS Publishing no. 236. Pp. 583–586.
"https://sa.bharatpedia.org/index.php?title=कौशिकी_नदी&oldid=3715" इत्यस्माद् प्रतिप्राप्तम्