ह्

भारतपीडिया तः
२०:२२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ह् कारः
उच्चारणम्

अस्य उच्चारणस्थानं कण्ठः अस्ति । एषः अवर्गीयव्यञ्जनस्य अष्टमः वर्णः । वर्णमालायां त्रयस्त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" अकुहविसर्जनीयानां कण्ठः " -सि० कौ

नानार्थाः

"हः शङ्करे हरौ हंसरणरोमाञ्चवाजिषु । गर्वे प्रचेतसि"

  1. विष्णुः
  2. परशिवः
  3. हंसः
  4. युद्धम्
  5. रोमञ्चः
  6. अश्वः
  7. गर्वः

"हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः" एकाक्षरकोशः

  1. वरुणः
  2. कोपः
  3. गजः

"हः शिवे सलिले शून्ये धारणे मङ्गलेऽपि च । गगने नकुलीशे च रक्ते नाके च वर्ण्यते " मेदिनीकोशः

  1. जलम्
  2. शून्यम्
  3. शुभम्
  4. रक्तः
  5. स्वर्गः
  6. धारणम्
  7. आकाशः
  8. नकुलीशः

"हं क्लीबमस्त्रसुखयोः क्वणितेमणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तूत्तानहास्ययोः" नानार्थरत्नमाला

  1. अस्त्रम्
  2. आनन्दः
  3. वीणानादः
  4. रत्नकान्तिः
  5. परब्रह्म
  6. आमन्त्रणम्
  7. उन्मुखी
  8. हास्यकारी

"ह स्यात् सम्बोधने पादपूरणे च विनिग्रहे। नियोगे क्षिपायां स्त्यात् कुत्सायमपि दृश्यते ” मेदिनीकोशः

  1. सम्बोधनम्
  2. पादपूरणम्
  3. नियोगः
  4. निग्रहः
  5. निन्दा
  6. क्षेपणम्
"https://sa.bharatpedia.org/index.php?title=ह्&oldid=9844" इत्यस्माद् प्रतिप्राप्तम्