फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
माध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः

द्वैतवेदान्तःत्रिषु वेदान्तेषु माध्वसिद्धान्तः अन्यतमः अस्ति। द्वैतपदस्य भेदः इत्यर्थः। अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति। अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यःमध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति। एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति। स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते। तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम्। अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति। तत्त्वप्रतिपादकः श्लोकः,

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥ (अधिकवाचनाय »)