फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
भगवान् बुद्धः

भारतीयदर्शनशास्त्रम् दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति। भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम्। ते भारतीया मनीषिणः ऋषयो बभूवुः। ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः। अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म। मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म। तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तम् अवसरोऽविद्यत। ते मनीषिणो विचारितवन्तः –एषा दृश्यमाणा चराचराणां महती सृष्टिः कथं सञ्जातेति। कोऽस्याः कर्त्ता रचयिता वा ?(अधिकवाचनाय »)