3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्
नेविगेशन पर जाएँ
खोज पर जाएँ
सूत्रसारः
व्यासभाष्यम्
एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा—चूर्णमृत्, पीण्डमृत्, घटमृत्, कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । अतो योगेन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते— धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥१६॥
सम्बद्धाः लेखाः
बाह्यसम्पर्कतन्तुः
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM