स्वधर्ममपि चावेक्ष्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement स्वधर्ममपि चावेक्ष्य (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः क्षात्रधर्मानुसारं युद्धं स्वधर्मः इति बोधयति । पूर्वस्मिन् श्लोके देहदेहिनोः विवेकसन्दर्भः पूर्णः अभवत् । इतः नवीनः विषयः आरब्धः । अर्जुनस्य मनसि आप्तजनानां, गुरुजनानां च मृत्योः भयम् आसीत् । अर्थाद् कुटुम्बादीनां वियोगस्य, अभावस्य दुःखं भविष्यति इति शोकः आसीत् । गुरुजनानां हत्यायां सत्यां पापकर्मत्वाद् परलोके नरकयातनादि दुःखं भविष्यति इति भयम् आसीत् । अतः अर्जुनस्य शोकं परिहर्तुं एकदशात् श्लोकात् त्रिंशं श्लोकं यावत् देहदेहिनोः विवकविषयः उक्तः । इतः परम् अर्जुनस्य भयम् अपहर्तुं भगवान् नवीनं विषयम् उपस्थापयति । एतस्मिन् नवीने विषये भगवान् प्रप्रथमं द्वयोः श्लोकयोः युद्धलाभं वर्णयति । सः कथयति यत्, स्वधर्म दृष्ट्वाऽपि त्वया विकम्पितेन न भवितव्यम् । अर्थात् कर्तव्यकर्मणः विचलितेन न भवितव्यम् इति । यतो हि धर्मयुक्ताद् युद्धाद् क्षत्रियस्य कृते अपरं कल्याणकरं कर्म नास्ति इति ।

श्लोकः

गीतोपदेशः
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥

पदच्छेदः

स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसि । धर्म्यात्, हि, युद्धात्, श्रेयः, अन्यत्, क्षत्रियस्य, न, विद्यते ॥

अन्वयः

स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि । क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
स्वधर्मं अ.पुं.द्वि.एक. आत्मधर्मं
अव्ययम्
अवेक्ष्य ल्यबन्तम् अव्ययम् विलोक्य
अपि अव्ययम् अपि
विकम्पितुम् तुमुन्नन्तम् अव्ययम् चलितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.मपु.एक. अर्हसि
हि अव्ययम् यस्मात्
क्षत्रियस्य अ.पुं.ष.एक. क्षत्रियकुलोवस्य
धर्म्यात् अ.नपुं.पं.एक. धर्मयुक्तात्
युद्धात् अ.नपुं.पं.एक. रणात्
अन्यत् अ.सर्व.नपुं.प्र.एक. अन्यत्
श्रेयः श्रेयस्.स.नपुं.प्र.एक. हितम्
अव्ययम्
विद्यते √विद ज्ञाने-आत्म.कर्तरि, लट्.प्रपु.एक. अस्ति ।


व्याकरणम्

सन्धिः

  1. चावेक्ष्य = च + अवेक्ष्य – सवर्णदीर्घसन्धिः
  2. धर्म्याद्धि = धर्म्यात् + हि - पूर्वसवर्णसन्धिः
  3. युद्धाच्छ्रेयोऽन्यत् = युद्धात् + श्रेयः – श्चुत्वं, छत्वसन्धिः
  4. युद्धाच्छ्रेयः + अन्यत् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

समासः

  1. स्वधर्मम् = स्वस्य धर्मः, तम् - षष्ठीतत्पुरुषः

कृदन्तः

  1. अवेक्ष्य = अव + ईक्ष + ल्यप्
  2. विकम्पितुम् = वि + कम्प् + तुमुन्

तद्धितान्तः

  1. धर्म्यात् = धर्म + यत् (अनपेतार्थे) धर्मात् अनपेतम्, तस्मात् । धर्मयुक्तम् इत्यर्थः ।

अर्थः

स्वधर्मः चिन्त्यते चेदपि त्वया न भेतव्यम् । यतः क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते । अतः श्रेयोभिलाषिणा त्वया युद्धम् अवश्यं कर्तव्यम् ।

भावार्थः [१]

'स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि' – सः स्वयं परमात्मा अस्ति । यदा सः शरीरेण सह तादात्म्यं स्थापयति, तदा तस्य 'स्वः' अर्थाद् स्वस्मिन् यत्किमपि आरोपितं स्याद् तत् । यथा अहं ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः वा । तर्हि स्ववर्णोचितानां कर्तव्यानां पालनमेव स्वधर्मः अस्ति । यदि कोऽपि स्वं शिक्षकत्वेन आरोपयति, तर्हि तेन शिक्षकस्य कर्तव्यानां योग्यतया पालनं करणीयम् । सः एव स्वधर्मः इति । यदि कोऽपि स्वं पुत्रत्वेन आरोपयति, तर्हि तेन पुत्रकर्तव्यस्य योग्यपालनं कर्तव्यम् । अत्र क्षत्रियस्य कर्तव्यकर्म धर्मत्वेन प्रतिपादितम् । गीताशास्त्रे यत्र चतुर्वर्णेभ्यः कर्तव्यकर्मणः वर्णनम् अस्ति [२], तत्र मध्ये 'धर्म' इत्यस्य शब्दस्यापि उपयोगः अस्ति । एवं 'कर्म', 'धर्म' इत्येतयोः शब्दयोः पर्यायवाचित्वं सिद्ध्यति [३] । क्षत्रियस्य परमकर्तव्यम् अस्ति यद्, युद्धात् कदापि विमुखः न भवेत् । अर्जुनः क्षत्रियः अस्ति, अतः तस्य स्वधर्मः युद्धम् एव । अत एव भगवान् कथयति यद्, स्वधर्मणः दृष्ट्या अपि पश्यामः, तर्हि क्षात्रधर्मानुसारं ते युद्धम् एव वरम् अस्ति । त्वया स्वकर्तव्याद् कदापि विमुखेन न भवितव्यम् इति ।

'धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते' – धर्ममययुद्धात् अपेक्षया क्षत्रियेभ्यः अपरं कल्याणकारकं कर्म नास्ति । अर्थात् क्षत्रियाय क्षात्रधर्मानुष्ठानमेव परमावश्यकम् [४]अर्जुनः सप्तमे श्लोके प्रार्थयति यद्, भवान् मह्यं निश्चितश्रेयसः चर्चां करोतु इति । तस्य उत्तरत्वेन भगवान् श्रेयसः अर्थात् कल्याणस्य मार्गत्वेन 'स्वधर्मपालनम्' इति सूचयति । कदापि स्वधर्मस्य त्यागः श्रेयस्करः न भवति । अतः त्वं स्वधर्मात् विमुखो मा भव ।

शाङ्करभाष्यम् [५]

इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न संभवतीत्युक्तम्। न केवलं परमार्थतत्त्वापेक्षायामेव। किं तु -

स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायः। तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम्। तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात्।।

भाष्यार्थः

अत्र उक्तम् अस्ति यद्, परमार्थतत्त्वस्य कृते शोकः उत मोहः अनुचितः इति । परमार्थतत्त्वस्य कृते शोकः, मोहः अनुचितः इत्येव न अपि तु –

क्षत्रियेभ्यः यः युद्धरूपी स्वधर्मः अस्ति, तं दृष्ट्वापि तव मनोभ्रमः अयोग्यः । अभिप्रायः अस्ति यद्, स्वस्य स्वाभाविकधर्माद् विचलता अपि अनुचिता एव । किञ्च एतद् युद्धं धर्मपालनाय, प्रजारक्षणाय च जायमानम् अस्ति । तत् सर्वं पृथ्वीविजयेन एव शक्यते । अतः परमधर्ममयं युद्धं विना अन्यः मार्गः क्षत्रियस्य कृते कल्याणप्रदः नास्ति ।

रामानुजभाष्यम्

अपि च इदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत्  स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात्  न्यायतः प्रवृत्तात्  युद्धाद् अन्यत् न हि क्षत्रियस्य श्रेयो विद्यते।

शौर्यं तेजो धृतिदाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ [गीता १८.४३] इति हि वक्ष्यते ।

अग्नीषोमीयादिषु च न हिंसा पशोः निहीनतरच्छागादिदेहपरित्यागपूर्वककल्याणदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य।

न वा उ वेतन्म्रियसे न रिष्यसि
देवामिदेषि पथिभिं सुगेभिम् ।
यत्र यतन्ति सुकृतो नापि दुष्कृतस्
तत्र त्वा देवं सविता दधातु [यजुर्वेद ४.६.९.४३] इति हि श्रूयते ।

इह च युद्धे मृतानां कल्याणतरदेहादिप्राप्तिरुक्ता वासांसि जीर्णानि [गीता २.२२] इत्यादिना । अतश्चिकित्सकशल्यादिकर्म आतुरस्येवास्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥

भाष्यार्थः

एतदतिरिक्तम् एतस्य आरब्धस्य युद्धस्य अग्नौ अनेकेषां प्राणिनां हिंसायां सत्यापि अग्निष्टोमेत्यादियज्ञवद् स्वधर्मं मत्वा त्वया मनोभ्रमग्रस्तेन न भवितव्यम् । यतो हि धर्मात् (न्यायात्) प्राप्ताद् युद्धाद् विशेषं क्षत्रियेभ्यः किमपि अपरं श्रेयस्करं न भवति । अग्रेऽपि कथयिष्यति यद्,

'शौर्य-तेजो-धृति-दक्षता-अपलायन-दान-ईश्वरभावाः सर्वाणि क्षत्रियाणां स्वाभाविकानि कर्माणि सन्ति' इति [६]

अग्निष्टोमेत्यादिषु यज्ञेषु जायमानं पशुबलिदानं हिंसा न । तत्तु निकृष्टयागादिशरीरं त्यक्त्वा नवीनस्य देहस्य, स्वर्गादीनां च प्राप्तिः इति उक्तम् । श्रुतौ अपि उक्तम् अस्ति यद्, हे पशो ! अनेन कर्मणा निश्चयेन त्वं मरिष्यसि । किन्तु सुगममार्गेण त्वं देवत्वं प्राप्स्यसि । तत्र केवलं पुण्यकर्मणः पुरुषाः एव गच्छन्ति, न तु पापिनः । सवितृदेवः तत्र तव स्थापनाङ्करिष्यति इति [७] । अत्र गीताशास्त्रेऽपि 'वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति' इत्यादिषु श्लोकेषु युद्धे प्राणत्यागोत्तरं कल्यामयशरीरादीनां प्राप्तेः चर्चा अस्ति । अत एव अग्निष्टोमित्यादिषु यज्ञेषु दीयमानं पशुबलिदानं रोगिणां रक्षायै चिकित्सककर्मवत् तेषां रक्षां करोति ।


फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १८, श्लो. ४२-४८
  3. श्रेयानस्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्, गीता, अ. १८, श्लो. ४७
  4. एवमेव अन्यवर्णेभ्यः ग्राह्यम्, गीता, अ. १८, श्लो. ४३
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  6. गीता, अ. १८, श्लो. ४३
  7. न वा उ वेतन्म्रियसे न रिष्यसि देवा इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविदा दधातु, यजुर्वेदः, ४/६/९/४६