स्रग्विणीछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

स्रग्विणी।

प्रतिचरणम् अक्षरसङ्ख्या १२

रैश्चतुर्भिर्युता स्रग्विणी संमता। केदारभट्टकृत- वृत्तरत्नाकर:३. ५६

ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ

र र र र।

यति: पादान्ते।


लक्षणम्

कीर्तितैषा चतूरेफिका स्रग्विणी

यस्मिन् वृत्ते द्वादशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे

चत्वारः रगणाः भवन्ति सा एव स्रग्विणी कीर्तिता वर्तते ।

उदाहरणम्

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।।

(धर्मलोपो यदाधर्मसम्पोषणं,जायते संसृजामि स्वयं भारत। सज्जनान् रक्षितुं दुर्जनान् मर्दितुं, धर्मसंस्थापनार्थं पुनर्भूतले॥)

अर्थस्तु स्पष्टः एव।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=स्रग्विणीछन्दः&oldid=8822" इत्यस्माद् प्रतिप्राप्तम्