स्मृति इरानी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder

स्मृति झुबिन् इरानी (जननम् २३ मार्च् १९७६) भारतीया राजनेत्री । पूर्वं दूरदर्शने अभिनेत्रीरूपेण निर्मापिकारूपेण च कार्यम् अकरोत् । सा भारतीयजनतापक्षीया । अद्यत्वे भारतसर्वकारस्य मानवसंसाधनमन्त्री विद्यते ।[१][२]

बाल्यं शिक्षणञ्च

स्मृतिः देहलीनगरे पञ्जाबी-बेङ्गालीपृष्ठभूमियुते कुटुम्बे अजायत । तिसृषु पुत्रीषु सा ज्येष्ठा । [३][४] रूपदर्शिनीरूपेण रङ्गप्रवेशतः पूर्वं सा मेक् डोनाल्ड्-उपाहारगृहे परिचारिकारूपेण कार्यम् अकरोत् । [३][४]

सा द्वादशकक्ष्यापर्यन्तं होलि चैल्ड् आक्सिलरिविद्यालये अपठत्, ततः शिक्षणं न अनुवर्तितवती । [५][६] स्वीयशिक्षणविषये विवादात्मकविवरणानि तया समर्पितानि स्न्ति । २००४ तमे वर्षे तया समर्पितं यत् देहलीविश्वविद्यालयतः १९९६ तमे वर्षे कलाविषये पदवी प्राप्ता अस्ति इति । २०१४ तमे वर्षे तया समर्पितं यत् १९९४ तमे वर्षे वाणिज्यविषये देहलीविश्वविद्यालये (दूरशिक्षणद्वारा) प्रथमवर्षस्य शिक्षणं समापितमिति । [७] पत्रिकावृत्तात् इदं ज्ञायते यत् २०१३ तमे वर्षे तया देहलीविश्वविद्यालये दूरशिक्षणविभागे अध्ययनम् आरब्धं किन्तु परीक्षा न लिखिता इति । [८]

अभिनयक्षेत्रे

१९९८ तमस्य वर्षस्य भारतसुन्दरीस्पर्धायां तया उपान्त्यस्थानपर्यन्तं गतमासीत् । तस्यां स्पर्धायां गौरी प्रधान, तेज्वानी इत्यादयः भागम् अवहन् । [४][९][१०][११][१२][१३] १९९८ तमे वर्षे सावन् मै लाग् गयी आग्' इत्यस्मिन् सङ्गीतसञ्चिकायां 'बालियन्'गीते इयं मैकासिंहेन सह भागम् अवहत् । [१४][१५] २००० तमे वर्षे सा 'स्टार् प्लस्'वाहिन्यां प्रसार्यमाणे 'आतिश्' तथा 'हम् है कल् आज् कल् और् कल्' इत्येतयोः धारावाहिन्योः प्रवेशम् अकरोत् । ततः तया एक्ता कपूरेण निर्मिते क्योंकि सास् भि कभी बहु थि' इत्येतस्यां धारावाहिन्यां तुलसी विरानी इति प्रमुखपात्रम् निरवहत् । तया क्रमेण पञ्च वारं भारतीय-दूरदर्शन-अकाडेमी-प्रशस्तिः प्राप्ता अस्ति अत्युत्तमाभिनेत्री (प्रसिद्धा) इति । चतुर्वारम् इण्डियन्-टेलि-अवार्ड्, अष्टवारं स्टार्-परिवार-प्रशस्तिश्च प्राप्ता अस्ति । निर्मापकेन एक्ता कपूरेण जातेन भिन्नाभिप्रायेण २००७ तमस्य वर्षस्य जून्-मासे एषा ततः निर्गता इत्यतः तस्याः स्थाने गौतमी कपूर् अभिनीतवती । २००८ तमे वर्षे मेमासे विशेषधारावाहिनीद्वारा तया पुनः प्रवेशः कृतः । [१६] २००८ तमस्य वर्षस्य षष्टे स्टार्-परिवार-प्रशस्तिदानावसरे तया कृताय विशिष्टयोगदानाय 'स्टार्-परिवारस्य आधारस्तम्भ' (The Base of Star Parivaar) इति परिगणय्य विशेषप्रशस्तिफलकेन सम्माननं कृतम् । [१७][१८] २००१ तमे वर्षे तया 'झी'वाहिन्याः 'रामायण'धारावाहिन्यां सीतायाः पात्रं पौराणिकं निरूढम् । २००६ तमे वर्षे तस्याः उपनिर्मापकत्वे 'तोडि सि झमीन् तोड स आस्मान्' धारावाहिनी प्रदर्शिता । अस्यां धारावाहिन्यां तया 'उमा'याः प्रमुखं पात्रं निरूढम् । सोनीवाहिन्याः कृते तया 'विरुध्'नामिका दूरदर्शनधारावाहिनी २००७ तमे वर्षे निर्मापिता, वसुधा नाम प्रमुखपात्रमपि निरूढम् । विनोद खन्नेन सह 'मेरे अपने' इत्येतस्य निर्माणं कृतम् । झीवाहिन्याः 'तीन् बहुरानिया' इत्येतस्यां धारावाहिन्यां तया भागः ऊढः । [१९]

२००८ तमे वर्षे 'यह है जाल्वा' इत्येतस्मिन् अभिनयम् अकरोत् । २००९ तमे वर्षे 'साब्-वाहिन्याम्' 'मनिबेन् डाट् काम्' इत्येतस्यां हास्यधारावाहिन्यां भागम् अवहत् । २०१२ तमे वर्षे 'अमृता'नामके बेङ्गालीचलच्चित्रे अभिनीतम् । [२०][२१] २०१४ तमे वर्षे तया 'आल् ईस् वेल्' चलच्चित्रद्वारा हिन्दीचलच्चित्रक्षेत्रे प्रवेशः कृतः । [२२][२३]

राजनीतिक्षेत्रम्

२००३ तमे वर्षे स्मृतिः भारतीयजनतापक्षं प्रविष्टवती । [२४] २००४ तमे वर्षे सा महाराष्ट्रस्य युवसङ्घस्य उपाध्यक्षा जाता ।[२५] २००४ तमे वर्षे जाते १४ भारतीयलोकसभानिर्वाचने देहल्याः चान्द्नी चौकप्रदेशतः कपिल् सैबल्-विरुद्धं स्पर्धितवती सा पराजयं प्राप्नोत् । सा भारतीयजनतापक्षस्य केन्द्रसमितेः निर्वाहकसदस्यारूपेण सा योजिता ।[१७][२६][२७] २००४ तमस्य वर्षस्य डिसेम्बर्-मासे स्मृतिः घोषितवती यत् 'लोकसभानिर्वाचने भारतीयजनतापक्षस्य पराजयाय (तदानीन्तनः) गुजरातमुख्यमन्त्री नरेन्द्र मोदी एव कारण । अतः सः त्यागपत्रं यावत् दद्यात् तावत् मया आमरणोपवासः करिष्यते' इति । [२८] भवत्या विरुद्धं कठिनक्रमः स्वीकरणीयः भवति इति अग्रे यदा पक्षस्य केन्द्रनायकैः सूचिता तदा सा स्वनिर्णयात् प्रतिगतवती ।[२९][३०] २००९ तमस्य वर्षस्य मेमासे नवदेहल्याः लोकसभानिर्वाचने विजय गोयलस्य परं प्रचारकरणावसरे तया राजधान्यां महिलानां सुरक्षाविषये आग्रहः प्रदर्शितः । अत्याचारिभ्यः कठिनं दण्डनं देयमिति असूचयत् । [३१] २०१० तमे वर्षे स्मृतिः भारतीयजनतापक्षस्य राष्ट्रियकार्यदर्शिरूपेण नियुक्ता । जून्-मासस्य २४ तमे दिनाङ्के सा पक्षस्य महिलाविभागस्य अखिलभारतीयकार्यदर्शित्वेन नियुक्ता । [२४][३२]२०११ तमस्य वर्षस्य आगस्ट्-मासे गुजरातराज्यात् राज्यसभासदस्यरूपेण शपथं स्व्यकरोत् ।[३३][३४][३५] २०१४ तमस्य वर्षस्य लोकसभानिर्वाचने सा उत्तरप्रदेशस्य अमेथिक्षेत्रतः राहुल गान्धेः विरुद्धं स्पर्धितवती । [३६] तया ३००७४८ मतानि प्राप्तानि, विजयी राहुल गान्धिः ४०६५८१ मतानि प्राप्नोत् । तेन पराजितानां मतानां विषये पूर्वतननिर्वाचनस्य अपेक्षया उत्तमा प्रगतिः दर्शिता । अस्मिन् निर्वाचने जयस्य सीमा १०७९२३ मतानि गतनिर्वाचने ३७०१९४ मतानि आसन् ।[३७][३८] २०१४ तमस्य वर्षस्य मेमासस्य २६ तमे दिनाङ्के प्रधानमन्त्री नरेन्द्र मोदिना सा मानवसंसाधनमन्त्रित्वेन नियुक्ता । मन्त्रिपरिषदि ३८ वर्षीया इयमेव अल्पवयस्का वर्तते । [१][३९]

वैयक्तिकजीवनम्

२००१ तमे वर्षे स्मृतिः झोरास्ट्रियमतस्थं झुबिन् इरानीवर्यं परिणीतवती । [२४] तस्मिन् वर्षे अक्टोबर्-मासे तयोः झोर् नामकः प्रथमापत्यं जातम् ।[४०] २००३ तमस्य वर्षस्य सेप्टेम्बर्-मासे झोरिष् नामिका पुत्री जाता । स्मृतिः शानेले नामिकायाः विमाता या झुबिन् इरानिनः पूर्वतनपत्न्याः मोनायाः पुत्री । [४]

वृत्तिविवरणम्

अर्बुदरोगसहायसंस्थातः आयोजिते कार्यक्रमे स्मृतिः

Television

वर्षम् कार्यक्रमः पात्रम् वाहिनी
आतिश स्टार् प्लस्
हम हैं कल आज कल और कल स्टार् प्लस्
2000 कविता कविता स्टार् प्लस्
2000–2008 क्योंकि सास भी कभी बहु थी तुलसी मिहिर विरानी स्टार् प्लस्
2001–2003 क्या हादसा क्या हकीकत स्मृति सोनी टि वि
2001–2003 कुछ .... दील से स्वामिनी सब टि वि
2001–2002 रामायण सीता जी टि वि
2004 काफी विथ् करण स्वामिनी (साक्षी तन्वारेण सह अतिथिः) स्टार् वर्ल्ड्
2006–2007 थोडी सी जमीन थोडा सा आसमान उमा स्टार् प्लस्
2007–2008 विरुद्ध वसुधा सुशान्त शर्मा सोनी टि वि
2007–2008 मेरे अपने शारदा 9X
2007–2008 तीन बहुरानिया वृन्दा जी टि वि
2008 यह है जलवा स्वामिनी (साक्षी तन्वारेण सह अतिथिः) 9X
2008 वारिस निर्मापिका जी टि वि
2009–2010 मनिबेन डाट काम मनिबेन् जमनकुमार पटेल सब टि वि
2012 सावधान इण्डिया[४१] स्वामिनी लैफ् ओ के
2013 एक थी नायक स्वाती लैफ् ओ के

प्रकल्पक्षेत्रे

प्रकल्पाः भाषा पात्रम्
कुछ तुम कहो कुछ हम कहे हिन्दी सर्गम्
मनिबेन डाट काम गुजराती मनि
कोई तरु बहु सरु तायु गुजराती देविका
मुक्तिधाम गुजराती माता
गर्व थी कहो अमे गुजराती छीये गुजराती मृदुला

चलच्चित्राणि

वर्षम् चलच्चित्रम् प्रात्रम् भाषा
2010 मालिक एक द्वारका मायी हिन्दी
2011 जय बोलो तेलङ्गाणा उग्रगामिनी तेलुगु
2012 अमृता बाङ्गला
2014 आल् इस् वेल् हिन्दी[४२]

प्राप्ताः प्रशस्तयः

वर्षम् पुरस्कारः विभागः कार्यक्रमः पात्रम्
2001 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) क्योंकि सास् भी कभी बहु थी तुलसी विरानी
2002 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्)
भारतीय टेलि प्रशस्तिः अत्युत्तमाभिनेत्री (प्रसिद्धा)
2003 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्)
भारतीय टेलि प्रशस्तिः अत्युत्तमाभिनेत्री (प्रसिद्धा)
अत्युत्तमं टि वि व्यक्तित्वम्
स्टार् परिवार प्रशस्तिः प्रिया स्नुषा
प्रिया पत्नी
2004 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्)
स्टार् परिवार् प्रशस्तिः प्रिया माता
प्रिया सास
2005 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्)
स्टार् परिवार् प्रशस्तिः प्रिया सास
ग्रे ८! महिलासाधिका प्रशस्तिः अत्युत्तमगृहिणी प्रशस्तिः
2006 स्टार् परिवार् प्रशस्तिः प्रिया सास
2007 भारतीय टेलि प्रशस्तिः अत्युत्तमाभिनेत्री (जुरि) विरुद्ध् वसुधा शर्मा
स्टार् परिवार् प्रशस्तिः प्रिया सास क्योंकि सास् भी कभी बहु थी तुलसी विरानी
झी अस्तित्व प्रशस्तिः अत्युत्तम दूरदर्शनव्यक्तित्वम्
2008 स्टार् परिवार् प्रशस्तिः विशेषाभिज्ञानम्
2009 गुजराति स्टेज् प्रशस्तिः अत्युत्तमाभिनेत्री मनिबेन डाट काम मनिबेन पटेल
2010 भारतीय दूरदर्शन अकाडेमी प्रशस्तिः ऐ टि ए मैल्स्टोन् प्रशस्तिः क्योंकि सास् भी कभी बहु थी तुलसी विरानी
2014 गर्व भारतीय दूरदर्शनप्रशस्तिः दशकस्य अत्युत्तम दूरदर्शनव्यक्तित्वम्

टिप्पणी

फलकम्:Reflist फलकम्:भारतस्य मन्त्रिपरिषद् (२०१४)

"https://sa.bharatpedia.org/index.php?title=स्मृति_इरानी&oldid=10492" इत्यस्माद् प्रतिप्राप्तम्