सि नारायणरेड्डि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:विलीनम् विदन्ति एव विद्वज्जना: यद् विश्वे अस्मिन् कवितावाङ्मये भारतदेशस्य महद्वैशिष्ट्यमस्तीति। ताद्रुशदेशे आधुनिकान्ध्रसाहित्यसाम्राज्यचक्रवर्तिन: वर्तन्ते आचार्या: सिनारे महाशया:। एते अविश्रान्तपरिश्रमिण:  वर्तन्ते आन्ध्रसाहित्ये। एते महभागा: १९८८ तमे वत्सरे स्वविरचितविश्वम्भरकाव्यस्य  प्रतिष्ठात्मकं ज्ञानपीठपुरस्कारमलभन्त।

सिनारे महाशया: आन्ध्रसर्वकारेण राज्यसभासभ्यत्वे न्ययोजिषत। एतेषां गीतानि तेलुगुचलनचित्ररङगे सह्रुदयवेद्यानि अतिप्रसिद्धानि आसन्।

बाल्यकाल:‌-विद्याभ्यासश्च---

सि नारायणरेड्डी महाशया: १९३१ तमे वत्सरे जुलाई मासे २९ तमे दिनाङ्के (प्रजोत्पत्तिनामके वत्सरे निजाषाढशुद्धपौर्णम्यां तिथौ)करीण्णगरजिल्लायां हनुमाजीपेटाख्ये लघुग्रामे जनिमलभन्त।अस्य पितुरभिधानं मल्लारेड्डीति स एक: कर्षक:,माता च बुच्चम्मेति साचैका ग्रुहिणी।सिनारे महाशयानां प्राथमिकविद्याग्रहणं तस्मिन्नेव ग्रामे लघुपाठशालायां आसीत्।बाल्यकाले एव एते हरिकथासु, जानपदेषु,जङ्गंकथासु समाक्रुष्टा: अभवन्।सिरिसिल्लग्रामे एते उर्दूमाध्यमेन माध्यमिकविद्यां,करीण्णगरे उन्नतपाठशालविद्यां अधीतवन्त:। एते,तस्मिन् काले तेलुगुभाषा एका ऐच्चिकभाषा आसित्। एते हैदरबाद् नगरे चादरघाट् कलाशालायां इन्टर्मिडियट्,उस्मानियाविश्वविद्यालये बि ए पर्यन्तं उर्दूमाध्यमेनैव पठित्वा

पुनस्तस्मिन्नेव विश्वविद्यालये तेलुगुभाषायां पी जि, डाक्टरेट् प्राप्तवन्त:।एते विद्यार्थिदशायामेव श्रीक्रुष्णदेवरायाध्रभाषानिलये बहुग्रन्थान् अधीतवन्त:।

कुटुम्बपरिचय:-

सि ना रे महाशया: तत्कालिकदुराचारप्रभावेन ग्रस्ता:। तेन कारणेन तेषां विवाह: बाल्यकाले एव सञ्जात:। पत्न्या: नाम सुशीला , तस्यै चतस्र: बालिका: अभवन्। तासां नामानि यथा गङ्गा,यमुना,सरस्वती,कृष्णवेणी इति। परं कर्मफलवशात् सुशीलाया: मृत्युरभवत्। सि ना रे महाशय: तस्या: नाम्नि एव महिलासाहित्यकाराणां प्रोत्साहनाय पुरस्कारान् प्रददाति।

उद्योग: रचनाप्रस्थानं च-

सि ना रे महाशय: प्रारम्भिकजीवने सिकिन्दराबाद् नगरे स्थितायां कला एवं विज्ञानकलाशालायां, निजां कलाशालायां च अध्यापकपदवीं आरूढवान्। तदनन्तरं उस्मानियाविश्वविद्यालये आचार्यपदवीं निर्वहन्नेव उन्नतपदवी:, पुरस्कारान् च प्राप्तवन्।एते सर्वतोमुखीनकवय:। यतोहि पद्य-गद्य-गेय-वचनकवितासु एतेषां गति: अकुण्ठिता वर्तते। तद्यथा तेषां रचनांशा:- चलनचित्रगीतानि,यात्राकथनानि,सङ्गीतनृत्यरूपकानि,मुक्तककाव्यानि,बुर्रकथा:(ग्रामीणेतिहासकथा:),गजलकविता:,व्यासा:,विमर्शनग्रन्था:,अनुवादाश्च। एतेषु सर्वेषु अंशेषु कार्यानि तेन विहितानि प्रकाशितानि च।

"https://sa.bharatpedia.org/index.php?title=सि_नारायणरेड्डि&oldid=10762" इत्यस्माद् प्रतिप्राप्तम्