साङ्ख्ययोगौ पृथग्बालाः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्थः (४) श्लोकः ।

पदच्छेदः

साङ्ख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ४ ॥

अन्वयः

बालाः साङ्ख्ययोगौ पृथक् प्रवदन्ति, पण्डिताः न । एकम् अपि सम्यक् आस्थितः उभयोः फलं विन्दते ।

शब्दार्थः

बालाः = मन्दाः
साङ्ख्ययोगौ = साङ्ख्यं च योगं च
पृथक् = भिन्नम्
प्रवदन्ति = कथयन्ति
पण्डिताः = ज्ञानिनः
न = न
एकम् = अन्यतरत्
आस्थितः = आश्रितः
अपि = अपि
सम्यक् = साधु
उभयोः = द्वयोः
फलम् = प्रयोजनम्
विन्दते = लभते ।


अर्थः

कर्मसन्न्यासः कर्मयोगः च पृथक् इति ये वदन्ति ते नूनं बालाः । ज्ञानिनः कदापि तथा न वदन्ति । यतः तयोः एकतरस्य आचरणेन मानवः उभयोः अपि फलं प्राप्नोति ।

शाङ्करभाष्यम्

संन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेययोर्विरुद्धयोः फलेऽति विरोधो युक्तो नतूभयोर्निःश्रेयसकरत्वमेघेति प्राप्त आदमुच्यते-साख्ययोगाविति। साख्ययोगौ पृथग्विरुद्धभिन्नफलौबालाः प्रवदन्ति न पण्डिताः। पण्डितास्तु ज्ञानिन एकं फलमविरुद्धमिच्छन्ति। कथमेकमपि साख्ययोगयोः सम्यगास्थितः सम्यगनुष्ठितवानित्यर्थः। उभयोर्विन्दते फलमुभयोस्तदेवहि निःश्रेयसं फलभतो न फले विरोधोऽस्ति। ननु संन्यास कर्मयोगं च केवलमभिप्रेत्य प्रश्नः कृतो भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोच्य शब्दन्तरवाच्यतयाप्रतिवचनं ददौ साख्यायोगाविति। तावेव संन्यासकर्मयोगौ ज्ञानतदिपायसमबुद्धित्वादिसंयुक्तौ सांख्ययोगशब्दवाच्याविति भगवतो मतमतो नाप्रकृतप्रक्रियेति ।।4।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु