सहजं कर्म कौन्तेय...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
- सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।
पदच्छेदः
सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥
अन्वयः
कौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।
शब्दार्थः
- सदोषम् = दोषयुक्तम्
- सहजम् = स्वभावजम्
- सर्वारम्भाः = सर्वकर्माणि
- आवृताः = आच्छादिताः ।
अर्थः
अर्जुन ! दोषयुक्तम् अपि स्वभावजं कर्तव्यं न त्यजेत् । धूमेन अग्निः इव सर्वाण्यपि कर्माणि दोषेण आवृतान्येव भवन्ति ।