समोऽहं सर्वभूतेषु...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
- ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवविंशतितमः(२९) श्लोकः ।
पदच्छेदः
समः अहं सर्वभूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु च अपि अहम् ॥२९ ॥
अन्वयः
अहं सर्वभूतेषु समः । द्वेष्यः मे न अस्ति, प्रियः न । ये तु मां भक्त्या भजन्ति ते मयि अहं तेषु च अपि ।
शब्दार्थः
- सर्वभूतेषु = सकलभूतेषु
- अहं समः = अहं तुल्यः
- मे = मम
- द्वेष्यः न अस्ति = वैरी नास्ति
- न प्रियः = प्रीतिविषयः नास्ति
- ये तु = ये च
- मां भक्त्या = मां प्रीत्या
- भजन्ति = सेवन्ते
- ते मयि = ते मयि वर्तन्ते
- अहं तेषु च अपि = अहं तेषु अपि वर्ते ।
अर्थः
अहं सर्वेषु अपि प्राणिषु समानः । न मे कुत्रचित् द्वेषो वर्तते । नापि कुत्रचित् प्रीतिः । किन्तु ये मां भजन्ति तेषामहं शैत्यपीडितानाम् अग्निरिव उपकारको भवामि । तेऽपि मया उपकृताः भवन्ति ।