सत्त्वं सुखे सञ्जयति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ ९ ॥

अन्वयः

भारत ! सत्त्वं सुखे सञ्जयति । रजः कर्मणि । तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति उत ।

शब्दार्थः

सञ्जयति = संयोजयति
कर्मणि = व्यापारे
ज्ञानम् = बोधम्
आवृत्य = आच्छाद्य
प्रमादे उत = अनवधाने अपि
सञ्जयति = संयोजयति ।

अर्थः

भारत ! एतेषु त्रिषु गुणेषु सत्त्वं दुःखकारणे सत्यपि आत्मनः सुखं जनयति । रजः सुखकारणे सत्यपि दुःखं जनयति । तमः तु ज्ञानम् आच्छाद्य अनवधानालस्यनिद्रादिकं जनयति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सत्त्वं_सुखे_सञ्जयति...&oldid=8280" इत्यस्माद् प्रतिप्राप्तम्